Courtesy:Smt.Balaa Chiravoori
*स्वामी विवेकानन्दः*
यत्र प्रश्नः उदेति... यत्र तस्य प्रश्नस्य समाधानं लभ्यते... तत्रैव ज्ञानपुञ्जमाविरभवति। विज्ञानं प्रसार्यति। तत्परिमलमेव जीवितानि सुगन्धमयं करोति। जातिं, युवकांश्च जागृतकरो विवेकानन्दः यौव्वने नैकाभिः समस्याभिः, नैकैः सन्देहैःसह विचलितमनस्को जातः। तेषां प्रश्नानां समाधानानि तस्य गुरवः श्रीरामकृष्णपरमहंसः अददन्। तानि समाधानानि अधुनापि जीवितसत्यान्येव भवन्ति। तत् गुरुशिष्यसम्भाषणम्.....
स्वामी विवेकानन्दः--समयमेव न पर्याप्तं भवति। जीवितं विरामहीनं भवति।
रामकृष्णपरमहंसः--कर्यातिपातत्वेन विरामो लभ्यते। किन्तु तत्कार्यफलेन सान्त्वनं लभ्यते।
स्वामी-- अधुना जीवितं कथं क्लिष्टमनुभूयते?
परमहंसः--जीवितं प्रति विश्लेषणं मा करोतु। तद्विश्लेषणं इतोऽपि संक्लिष्टं करोति। जीवने जीवतु।
स्वामी-- किमर्थं सर्वदा बाधामनुभवामः?
परमहंसः-- प्रतिविषयेष्वपि आन्दोलनं अभ्यासकारणादेव बाधां प्राप्नुयामः।
स्वामी-- किमर्थं सतुपुरुषानेव क्लेशाननुभविषयन्ति?
परमहंसः--घर्षणं विना हीरकं न प्रकाश्यते।विनाग्निः सुवर्णं न शुद्ध्यति।तथैव साधुनां प्रत्यपि समस्याः आगते सत्यपि चिन्ता मास्त्वेव। संक्लिष्टमयजीवनेन इतोऽपि तेभ्यः प्रकाशमयजीवितं लभिष्यति।
स्वामी-- तर्हि कष्टानि समीचीनान्येव!!
परमहंसः-- आम्, प्रतिवारमपि अनुभावदपि श्रेष्ठः कठिनगुरुः इतोऽपि कोऽपि नास्ति।ह अनुभवः पूर्वतः परीक्षा विधाय तत्पश्चात् पाठयति।
स्वामी-- जीवने नैकाः समस्याः.. तेन कारणेन कुतः गमिष्यामो इत्यपि नावगम्यते।
परमहंसः-- त्वं बहिरेव पश्यसि तर्हि कुत्र गच्छतीति न ज्ञायसे।अन्तरे पश्य, नेत्रे दृष्टिं दर्शयतः, हृदयं मार्गं दिशति।
स्वामी-- साधुमार्गगमनादपि वैफल्यं संभविष्यति चेत् अत्यधिका बाधामनुभविष्यामः।
परमहंसः-- विजयमित्युक्ते अन्यैः तुलनीयं भवति। सन्तृप्तिः अस्माभिरेव निर्णीतः।
स्वामी-- क्लिष्टसमयेष्वपि भवान् कथं स्फूर्तिमन्तो भवति?
परमहंसः-- गम्यं प्रति अस्माभिःकियद् दूरं आगम्यते इत्येव पश्य, इतोऽपि कियद् दूरमस्तीति मा चिन्तय,तव वराण्येव गणय, अप्राप्तविषयान् मा विचारय।
स्वामी-- जनेषु भवदाश्चर्यकरो विषयो कोऽस्ति?
परमहंसः-- जनाः कष्टानागते सति अस्द्भ्यं किमर्थं कष्टान्यागतानि इति पृच्छन्ति। सुखान्यागते सति किमपि न पृच्छन्ति । स एवाश्चर्यकरो विषयः।
स्वामी-- जीविते अभ्यन्तिं कथं प्राप्स्यामः?
परमहंसः-- विगतविषयान् कटुकरान् सन्त्यपि तान् प्रति चिन्ता न कर्तव्या। वर्तमाने विश्वासेन व्यवहर। निर्भयेन भविष्यते संसिद्धो भव।
स्वामी-- अन्तिमोऽयं प्रश्नः। कदाचित् मम प्रार्थनानां समाधानं न प्राप्तवानहम्।
परमहंसः-- प्रार्थनानां समाधानं अप्राप्तं इति नास्त्येव। विश्वसितु, भीतिं विसृज, जीवतं इत्युक्ते मर्ममेव,तं अन्वेषय। जीवितं समस्या नैव भवति तं परिष्कर्तुम्। जीवनविधानेन जीवितं अद्भुतमयं भवति। मां विश्वसतु। नित्यं सन्तोषयुक्तो भव।
👉गतस्य चिन्ता न कर्तव्या। स्थितस्य गतिः न योचनीया। अल्पजीवनेनैव तरणमिति अस्माकं लक्ष्यं भवति।मानवजीवितमेवाल्पो भवति। तं प्रति विचिन्त्य सहनेनैव जीवयामः..
🙏🌷बाला...✍
गणान्तरात् ... अनूद्य....
No comments:
Post a Comment