Wednesday, March 7, 2018

Sanskrit joke

*मद्यपस्य विवेकः*

मद्यपः - ह्यः द्विचक्रिकया मदिरापणं गत्वा मद्यकूपीं क्रीतवान्।  प्रत्यागमनसमये अचिन्तयं यदहं चक्रिकातः पतामिश्चेत् कूपी भग्ना भविष्यति तेन मद्योऽपि नष्टं भविष्यति इति। 

मित्रम् - तर्हि किं कृतवान्? 

मद्यपः - तत्रैव स्थित्वा पूर्णमदिरां पीत्वा एव गृहम् आगतवान्। 

मित्रम् - रे मूर्ख! तव कार्यम्। 

मद्यपः - रे! तदानीं सम्यगेव आचरितं मया जानासि किं ततः पश्चात् कतिवारं द्विचक्रिकायाः पतितवान् इति!! अष्टवारं.... अष्टवारं पतितवान् इदानीमपि मम सयोचितविवेके गर्वम् अनुभवामि।। 


😀😀😀😀

- सुनीश्

No comments:

Post a Comment