Thursday, March 15, 2018

Ratha saptami -Sanskrit essay

Courtesy: Smt balaa chiravoori 
*स्वर्वाणीप्रकाशः*
 (वाट्साप्प् सदः)
🌞बुधवासरः (24-01-18) सप्तमी☀
✍प्रस्तावविषयः-- रथसप्तमी🌺

 *यत्र यत्र कृतं पापं मया सप्तसु जन्मसु।* 
 *तन्मे रोगं च शोकं च भास्करी हन्तु सप्तमी।।* 
 *जननी सर्वभूतानां सप्तमी सप्तसप्तिके।* 
 *सप्तम्यामुदिते देवि नमस्ते रविमण्डले।।*
        ---पद्मपुराणम्।

रथसप्तमीपर्वणि अनेन श्लोकेन सूर्यमूर्तिं ध्यात्वा यः उषःकाले स्नानं करोति तस्य सर्वपापक्षयो भवति। सप्तमीतथिः अतिपुण्यतरा इति पुराणैः कीर्तिता। तत्रापि माघमाशुक्लपक्षसप्तमी अत्यन्त विशिष्टा भवति। इमं सप्तमीतिथिः कोटिसप्तमीसमाना इति सूर्यग्रहणतुल्या इत्यपि पद्मपुराणवचनम्। 

अस्मिन् दिने बदरीफलसहितार्कपत्रान् शिरसि, स्कन्धयोः, संस्थाप्य स्नानंमाचरणीयम्। 
अर्कपत्रं, यवाः, पुष्पं, बदरीफलम्, तणुडुलम्, ससिन्दूरयज्ञोपवीतम् च अर्कपत्रे अथ वा ताम्रपित्रे वा निधाय भानवे अर्घ्यं समर्पणीयम्। तेन कर्मणा सप्तजन्मार्जितेन पापेन विमुक्तो भवति। 
अस्यां रथसप्तम्यां तण्डुलं आतपीकृत्य तद् हविष्यन्नमेव भोक्तव्यम्। उलूखलेन भर्जित पदार्थान्, आर्द्रकमिश्रितशाकानि, कोरदूषकपत्रैः विरचितपदार्थान्, कदलीफलानि, अजाघृतमपि च वर्जनीयाः। उष्णोदकस्नानं न समाचरेत्। अल्पबीजधान्यानि न ग्रहणीयानि। धर्मचिन्तनपरो भूत्वा रथसप्तमी व्रतं करणीयम्। 

अनेन प्रकारेण यः नियमानि पालितो भवति सः भास्करस्य प्रसादात् सम्पत्समृद्धिः आरोग्यं च लब्ध्वा सुखमाप्नोति। माघशुक्लसप्तमी " जया" इति अपरानाम्ना व्यवह्रियते।  यथा रविवासरे आगते सति तस्याः नाम "महाजया" इति नाम्ना प्रसिद्धा भवति। अस्मिन् पर्वणि  दानादिकर्मणा अक्षय्यपुण्यफलं सम्प्राप्स्यामः इति एतत्सर्वं वृत्तान्तं पद्मपुराणे अभिवर्ण्यते। 

         🙏🌷बाला...✍

No comments:

Post a Comment