पाणिनिरष्टाध्याय्यां स्वकीयायां दश प्राचीनान् व्याकरणाचार्यान् स्मरति सादरमेतेषु सूत्रेषु -
वा सुप्यापिशलेः ६॥१॥९२,
तृषिमृषिकृषेः काश्यपस्य १॥२॥२५,
औतो गार्ग्यस्य ८॥३॥२०,
तृतीयादिषु भाषितपुंस्कां पुंवद् गालवस्य ७॥१॥७४,
ई३ चाक्रवर्मणस्य ६॥१॥१३०,
ऋतो भारद्वाजस्य ७॥२॥६३,
लङः शाकटायनस्यैव ३॥४।। १११,
लोपः शाकल्यस्य, ८।।३।१९,
अवङ् स्फोटायनस्य ६॥१।१२३,
गिरेश्च सेनकस्य ५॥४।। ११२
No comments:
Post a Comment