Wednesday, March 7, 2018

Gupta navaratram

⛳🙏
✍प्रस्तावविषयः-- गुप्तनवरात्रम्💐

माघमासस्य शुक्लपक्षे प्रतिपदायाः आरभ्य नवमीपर्यन्तं नवदिनानि देव्याः आराधनाय कल्प्यन्ते। गुप्तनवरात्रमिति तन्नाम। देवीभागवतमाश्रित्य वत्सरे चतुर्धा नवरात्रम् आमन्यते। यथा शरन्नवरात्रिः तथैव अस्मिन्नपि सङ्कल्पपूर्वकम्, उपवास-दीक्षास्वीकार-मन्त्रपठन-जपादिसहितं देवीसमाराधनं क्रियते। प्रातः सायं च दुर्गायाः षोडशोपचारपूजनं, दशमहाविद्यासाधनं, दुर्गासप्तशत्याः अथवा सप्तश्लोक्याः वा पठनम्, अन्ते कन्यापूजनं च विधीयन्ते। अखण्डदीपस्य स्थापनमपि अत्र विशेषः। एतत् सर्वं यावच्छक्ति गुप्तमेव कर्तव्यं, येन कामनासिद्धिः सुगमा भवेत्। उत्तरभारते यथा हिमाचलप्रदेशे, पञ्जाबराज्ये , हरयाणायां, उत्तराखण्डं परितः च उपासनेयं क्रियते।
नव दिनेषु देव्याः नव रूपाणि आराध्यन्ते। प्रतिपदायां शैलपुत्री, द्वितीयायां ब्रह्मचारिणी, तृतीयायां चन्द्रघण्टा, चतुर्थ्यां कुष्मांडा, पञ्चम्यां स्कन्दमाता, षष्ठ्यां कात्यायनी, सप्तम्यां कालरात्री, अष्टम्यां महागौरी, नवम्यां च सिद्धिदात्रीति तस्याः विश्वशक्त्याः रूपाणि क्रमशः उपास्यन्ते। क्वचित् मातृशक्तेः नामानि एवमपि दृश्यन्ते-- काली, तारादेवी, त्रिपुरसुन्दरी, भुवनेश्वरी, छिन्नमस्ता, त्रिपुरभैरवी, धूम्रावती, बगलामुखी, मातङ्गी, कमलादेवी चेति।
प्रथमदिने प्रातरुत्थाय, स्नानादिकेन शुचिर्भूत्वा मन्दिरं गत्वा, गोघृतदीपज्वालनं क्रियते। भूम्यां मृत्तिकां प्रसार्य, योग्यपात्रे घटस्थापनमथवा कलशप्रतिष्ठापनं क्रियते। तस्मिन् नाणकानि संस्थाप्य मौलिं बद्ध्वा, पुष्पमालया अलङ्कृत्य, पात्रं च पिधाय, तदुपरि जलभृत् नारिकेलं रक्तवर्णवस्त्रेण आवृत्त्य स्थाप्यते। तण्डलं, फूगीफलमित्यादिना सम्पूज्य गणेशवन्दनपुरस्सरं दुर्गाध्यानादिकं क्रियते। नव दिनानि यावत् कलशः तथैव स्थाप्यः। 
गुप्तनवरात्रस्य कथा प्राचीना। शृङ्गीति कश्चन ऋषिः यदा सम्मुखमागतान् पश्यति स्म, तदा काचित् स्त्री तमुपसृत्य प्रार्थयत्। तस्य पतिःमांसाहार-द्यूतादि- दुर्व्यसनेषु पतितः। तेन सा धार्मिकानुष्ठानानि कर्तुं न पारयति। देव्याः अनुग्रहप्राप्त्यर्थं, परिवारस्य कल्याणार्थं च सा प्रयत्नशीला। ऋषिः तस्याः भक्तिं श्रद्धां च दृष्ट्वा नितारामानन्दितः सन् तां सर्वैश्वर्यकारिण्याः, सर्वसौख्यप्रदायिन्याः देव्याः गुप्तनवरात्र्युपासनां कर्तुं प्रोत्साहितवान्। व्रताचरणेन तस्याः जीवनं पुनः सुखशान्तिमयं जातम्।
वाराहीदेव्याः वैशिष्ट्यं त्रिधा- सा दोषघ्नी, सम्पद्दात्री, ज्ञानदायिनी च। तान्त्रिकाणां, शक्तिसाधकानां, महाकालादिसम्बद्धजनानां कृते गुप्तनवरात्रं वैशिष्ट्यं भजते। कठिनेन नियमपालनेन, व्रताचरणेन अत्यन्तं सन्तुष्टायाः दुर्गायाः अनुग्रहेण महाशक्तीः प्राप्यन्ते उपासकैः॥ इत्यलं विस्तरेण॥

--उषाराणी सङ्का

No comments:

Post a Comment