Wednesday, March 28, 2018

Go deep and understand a person like a key - Sanskrit story

"कुञ्चिका भवतु मुद्गरो भूत्वा को लाभ:"
         कस्मिंश्चिदपि ग्रामे एक: तालस्य आपण: आसीत् । तालापणिक: प्रतिदिनम् अनेका: कुञ्चिका: निर्माति स्म । तालापणे एक: मुद्गरोपि आसीत् । मुद्गर:प्रतिदिनं पश्यति यत् कुञ्चिकेयम् एतावद्दृढतालस्यापि अल्पप्रयत्नेन उद्धाटनं करोति ।
        एकदा मुद्गर: कुञ्चिकां पृष्टवान् यत् अहं तवापेक्षया अतिशक्तिशाली अस्मि , मम अन्त: लोहमपि तवापेक्षया अधिकमस्ति ,आकारेपि त्वत्त:, बृहच्चास्मि । परं पुनरपि मम तालत्रोटने  बहु समय: गच्छति तथा च एतावती लघ्वी असि त्वम् परमल्पप्रयत्नेन दृढकायतालम् कथम् उद्घाटयति । कुञ्चिका ईषद्विहस्य मुद्गरमुक्तवती यत् भवान् तालस्योपरि प्रहारं करोति तथा तं त्रोटयितुञ्च प्रयत्नं करोति , परञ्चाहम् तालस्यान्त: गच्छामि तस्य अन्तर्मन: स्पृशामि भ्रमित्वा च तालस्य निवेदनं करोमि ततश्च ताल: उद्घटति ।
वाह ! कियती गोपनीया वार्ता कुञ्चिकयोक्ता यत् अहं तालस्य अन्तर्मन: स्पृशामि तथा ताल: उद्घटति ।
मित्राणि ! भवन्त: कियन्तोपि शक्तिशालिन: भवन्तु वा कियती अपि शक्ति: भवतां पार्श्वे भवतु , परञ्च यावद्भवन्त: जनानाम् हृदये न अवतरिष्यन्ति , तस्य अन्तर्मनो न स्प्रक्ष्यति तावत् कश्चिदपि भवतां सम्मानं न करिष्यति । यथा मुद्गरस्य प्रहारेण ताल: न उद्घटति अपितु त्रुटितो भवति, तथैव यदि भवन्त: भवत्यो वा  शक्ते: बलेन कार्यं कर्तुमिच्छन्ति तर्हि भवन्त: शतप्रतिशतम् असफला: भविष्यन्ति । यतोहि शक्त्या भवन्त: भवत्यो वा कस्यचिदपि हृदयं न स्पर्ष्टुं शक्ष्यन्ति । अत: "कुञ्चिका: भवन्तु सर्वेषां हृदयानां कुञ्चिका:।"

#स्वच्छभाषाभियानम्
#सुरभारतीसमुपासका:
       दीपकवात्स्य:

No comments:

Post a Comment