Tuesday, March 6, 2018

Gangaa glaani pancakam Sanskrit

श्रीगङ्गाग्लानिपञ्चकम्
******************
(१)
गङ्गे स्थूलतनुर्गता क्व तव हे चण्डस्वरूपं क्व वा
स्वच्छाम्भश्च सुधासमं रुचिकरं नो दृश्यते वाधुना।
क्षीणाङ्गां मलिनां विनोदरहितां दृष्ट्वा प्रयागेधिकं
दुःखं मे हृदि वर्द्धते हि नितरां किं वा स्वयं नश्यसि।।  
(२)
शैलाधीश्वरनन्दिनी विमलिनी स्रोतस्विनी भामिनी
रम्योर्मिः बहुशीतलाढ्यपवनी  त्वं पुण्यदा मोक्षदा।
यच्छ्रुतं बहुशः पुराणवचनं रोमाञ्चकार्याकृतिः
मिथ्या तत् किमु हे विलासरहिते लोकार्दिते निःसृहे।।
(३)
किं वा पापिजनौघपापहरणात् पापेन संत्रासिता
किं वास्थिग्रहणाद् विमुक्तिफलदे ग्लानिं गतास्मिन् कलौ।
वार्द्धक्यस्य दशा त्वदङ्गरुचिरे किं वा प्रविष्टाभवत्
नोचेद् वृद्धजनो यथा हततनुस्तद्वत् कथं दृश्यते।।
(४)
नम्रा क्षीणतनुः कदर्यवदना वाराणसीवासिनि 
श्रीविश्वेश्वरमानसी भवति किं तेनैव हे कामदा।
स्वच्छापः परिगृह्य भारतयशाः भात्वत्र भूमण्डले
सर्वे भारतवासिनः दृढधिया तस्यै कुरुध्वं मनः।।
(५)
हे गङ्गे वद मां हि सत्यवचनं किं ते स्वरूपं मधु
रम्यं पूर्वकलेवरं क्षितितलं नायास्यति किं पुनः।
हे मातस्तव सेवकाः सविनयं त्वत्पूततार्थं द्रुतं
ध्यायामश्च हरिं हरं गिरिपतिं रक्षन्तु तेस्मिन् यशः।।
              (श्रीव्रजकिशोरः)

No comments:

Post a Comment