Courtesy:Sri.Shreyas Mohan
।। जय गुरुदेव जय महर्षि जी।।
ज्योतिर्विद्या
7.1. वियोनिजन्मनिश्चयः ।
आदौ वियोनिः नाम किम्? इति प्रश्नमुदेति। विविधाः योनयः वियोनयः। विविधानां योनीनां, तिर्यक्, स्थावरादीनाम् जन्म तत् वियोनिजन्मा। प्रपञ्चेऽस्मिन् (84,000) चतुरशीतिसहस्त्राणि वियोनिजन्मानि वर्तन्ते। तेषां वियेनिनां जातकचिन्तनम् अत्र विशदिक्रीयते। स्वप्राग्जन्माकर्मानुसारेण तिर्यक्, पक्षिः, स्थावरः, जङ्गमादयः जायन्ते।
तत्र प्रष्टुः सकाशात् जातककालं प्रश्नकालं वा विज्ञाय वियोनिजन्मनिश्चयज्ञानं भवति। प्रश्नकाले जन्मकाले वा यदि क्रूरग्रहाः बलसहिताः भूत्वा, सौम्यग्रहाः निर्बलाः सन्तः, नपुंसकग्रहौ केन्द्रसंस्थितौ स्यातां, तर्हि वियोनिजन्म जायते। तत्र जिज्ञासा स्वरूपः, वियोनिः कीदृशः? कीदृशः असौ सत्वः? इति। तच्च अग्रे लिख्यते; चन्द्रः यस्मिन् राशेः द्वादशांशे स्थितः तस्मिन् राशिसमानरूपं वदेत्, अर्थात् चन्द्रद्वादशांशसमानरूपं वदेत्। चन्द्रद्वादशांशः मेषे भवति चेत्, मेषसमानरूपः वियोनिरिति ज्ञातव्यः। अध्याये अस्मिन् वियोनिजन्मयोगे प्रथमश्लोके क्रूरग्रहशब्दः प्रयुक्तः। क्रूरग्रहाः के? इति प्रश्नः समुदेति। क्रूरग्रहैः अर्थात् रविकुजशनिभिः, एभिः सुबलिभिः अर्थात् बलिष्ठैः भवेत्। सौम्यग्रहैः अर्थात् चन्द्रबुधगुरुशुक्रैः विबलैः बलहीनैः भवेत्। क्लीबे ग्रहौ अर्थात् बुधशनी, एतौ चतुष्टयगतौ अर्थात् केन्द्रे गते भवेत्। तदनीं वियोनिजन्म भवति। अन्ययोगः क्लीबग्रहौ तत् अवेक्षणात् वा; तयोः क्लीबग्रहयोः बुधशन्योः, लग्ने परिदृष्टौ सति अवेक्षणात् वा, वियोनिजन्म जायते। स च वियोनिः चन्द्रो प्राप्तः द्वादशांशासमानरूपं जायते। चन्द्रप्राप्तद्वादशांशाः यदि वियोनिसंज्ञः भवेत् अर्थात् मेष-वृषभ-मिथुन-कर्क-सिंह-वृश्चिक-धनु-उत्तरार्धा-मकर-मीनाः एषु राशिषु वियोनिसंज्ञितेषु अन्यतमः राशिः भवेत्। तदा चन्द्रोपगात् द्विरसभागसमानरूपम् अर्थात् चन्द्रप्राप्तद्वादशांशराशेः समानरूपं तिर्यग् जन्तवः जन्म वदेत्।
अत्र भवति स्मर्तव्याः अंशाः-
पापग्रहाः सुबलिभिः, सौम्याः विबलैः, क्लीबे चतुष्टयोपगते, वियोनिजन्म जायते।
पापग्रहाः सबलिभिः, सौम्याः विबलैः, क्लीबे लग्नम् ईक्षणात् वा वियोनिजन्म जायते।
चन्द्रप्राप्तद्वादशांशराशिः समानरूपं तिर्यग् जन्तूनां जन्म भवति।
इदं योगम् वसन्ततिलकछन्दसि उक्तम्। यथा-
क्रूरग्रहैः सबलिभिः विबलैश्च सौम्यैः क्लीबे चतुष्टयगते तदवेक्षणद्वा।
चन्द्रोपगाद्विरसभागसमानरूपं सत्वं वदेत् यदि भवेत्स वियोनि संज्ञः।।
पापाः अर्थात् पापग्रहाः भवन्ति। एते पापग्रगहाः स्वभागगाः अर्थात् स्वनवांशं प्राप्ताः बलिनः भवेयुः, शोभनाः अर्थात् शुभग्रहाः, पारक्ये अर्थात् परग्रहनवांशे विबलाः भवेयुः, तदानीं वियोनिसंज्ञकमेषादिषु पूर्वोक्तेषु राशिषु अन्यतमं लग्नं भवेत्, अत्रापि चन्द्रोपगात् द्विरसभागसमानरूपं दृष्ट्वा वियोनिसंज्ञकं तिर्यक् जन्तुरूपजन्म आदिशेत्। चन्द्रमा यस्मिन् द्वादशांशे तत् सदृशरूपं प्राणिनां वियोनिजन्म वदेत्। तच्च अग्रे विव्रीयते। मेषद्वादशभागे व्यवस्थिते चन्द्रमसि जाते, मेषाख्यस्य जन्म जायते। एवं वृषद्वादशभागे व्यवस्थिते चन्द्रमसि, वृषाख्यस्य जन्म जायते। कर्काटकद्वादशभागे व्यवस्थिते कुलीरादेः जन्म जायते। सिहंस्य द्वादशांशे चन्द्रमसि, सिंहद्विपिशृगालमार्जारादिसत्त्वानां जन्म जायते। वृश्चिकद्वादशभागे व्यवस्थिते सर्पकीटादेः जन्म जायते। धनुर्धरद्वादशभागे द्वितीयार्धे व्यवस्थिते अश्वगर्दभादि जन्म जायते। मकरद्वादशभागे पूर्वार्धे व्यवस्थिते, मृगजन्म जायते। केचिदाचार्याः, मण्डूकादेः जलचरप्राणिनः इच्छन्ति। मीने मीनस्यैव भवति। अत्र भवतः स्मर्तव्याः अंशाः-
पापाः बलिनः स्वनवांशस्थाः, शुभग्रहाः परनवांशगताः विबलाः, लग्नं वियोनिसंज्ञक भवेत् तदानीं वियोनिजन्म जायते।
चन्द्रप्राप्तद्वादशांशराशेः समानरूपं तिर्यग् जन्तूनां जन्मानि जायन्ते।
पापबलिनः स्वभागगाः पारक्ये विबलाः च शोभनाः।
लग्नञ्च वियोनिसंज्ञकं दृष्ट्वाऽत्रापि वियोनिमादिशेत्।।
पदच्छेदः-
क्रूर-ग्रहैः सबलिभिः विबलैः च सौम्यैः क्लीबे चतुष्टयगते तत् अवेक्षणात् वा चन्द्रः उपगतः द्विरसभागसमानरूपं सत्वं वदेत् यदि भवेत् वियोनि संज्ञः।
पापबलिनः स्वभागगाः पारक्ये विबलाः च शोभनाः। लग्नं च वियोनि संज्ञकं दृष्ट्वा अत्रापि वियोनिम् आदिशेत्।
अन्वयः= क्रूरग्रहैः सुबलिभिः सौम्यैः विबलैः च क्लीबैः चतुष्टयगते तत् अवेक्षणात् वियोनिजन्म वा चन्द्रोपगद्विरसभाग समानरूपं सत्वं वदेत् यदि वियोनिसंज्ञः भवेत्।
अन्वयार्थः- क्रूरग्रहैः= पापग्रहैः, सुबलिभिः=बलसहितैः, सौम्यैः=शुभैः, विबलैः=विगतैः बलैः अर्थात् निर्बलैः, च क्लीबे=नपुंसके ग्रहे, चतुष्टयगते=केन्द्रगते, तत् अवेक्षणात्=लग्नम् ईक्षणात्, वियोनिजन्म वा=विविधाः योनि जन्मम् चन्द्रोपग=चन्द्रप्राप्त, द्विरसभागः=(द्विरसाः अर्थात् द्वि रसेन गुणिताः; रसशब्देन षड् मन्यन्ते। द्वि रसेन गुणिताः अर्थात् 2*6=12 द्वादशांशाः समानरूपम् आदिशेत्) समानरूपं=राशिसमानरूपम्, सत्वं=प्रकृतिम्, वदेत्=फलम् आदिशेत्, वियोनिसंज्ञः भवेत्।
भावः= क्रूरग्रहैः बलेन सहितैः, सौम्यैः विबलैः, केन्द्रगते क्लीबे, चन्द्रप्राप्तद्वादशांशसमानरूपं वियोनिजन्म जायते। क्रूरग्रहैः बलेन सहितैः, सौम्यैः विबलैः, क्लीबे लग्नं वीक्षिते चन्द्रप्राप्तद्वादशांशसमानरूपं वियोनिजन्म जायते। पापाः बलिनः स्वनवांशगताः, पारक्ये विबलाः, वियोनिसंज्ञकं लग्नं भवेत्स अत्रापि चन्द्रप्राप्तद्वादशांशसमानरूपं वियोनिजन्म जायते।
बोधप्रश्नाः-
1. वियोनिजन्मप्रथमयोगं लिखत।
2. लग्नवशात् वियोनिजन्मयोगं लिखत।
1.21 । सप्तमांशेश का विचार।
लग्नादिसप्तमांशेशास्त्वोजे राशौ यथाक्रमम् । युग्मे लग्ने स्वरांशानामधिपाः सप्तमादयः।।31।।
डॉ॥ मुरलीश्याम।
No comments:
Post a Comment