एकस्मिन् समये एव त्रि-तलाक अपराधः इति अनुमोदयत् मुस्लिम-महिला-विवाह-अधिकार-संरक्षण-विधेयकं २०१७ गुरुवासरे लोकसभायां ध्वनिमतेन पारितमभवत्। चर्चायामस्यां कोंग्रेसनेत्रा मल्लिकार्जुनखडगेन विधेयकमिदं स्थायिसमितिं प्रति प्रेषयितुं उक्तम्। ए.आई.एम.आई.एम सांसदः असदुद्दीन-ओवैसी अस्य विधेयकस्य विरोधं कृतवान्। तेन दर्शितं संशोधनं लोकसभायां बहुमतेन निरस्तम् अभवत्।
एतेन विधेयकेन समग्रे भारते मुस्लिमसमुदायस्य महिलासु हर्षोल्लासः व्याप्तः अस्ति तत्रैव पुरुषेषु दुःखं व्याप्तमस्ति। उलेमा-मौलाना-इमामादयः विधेयकस्य विरोधं कृतवन्तः सन्ति।
अधुना इदं विधेयकं राजसभायां अनुमत्यार्थं प्रेषितमस्ति। संसदीयकार्यमन्त्रिणा अनन्तकुमारमहोदयेन सर्वाणि राजनैतिकदलानि समाहूतानि यत् तानि इदं विधेयकं राज्यसभायामपि समर्थयन्तु इति। संसद्-परिसरे वार्ताहरैः सह सम्भाषणे मन्त्रिणा कथितं यत् मुस्लिम-महिलानां सशसक्तिकरणाय अस्याः परम्परायाः उन्मूलनार्थं सर्वाणि दलानि राज्यसभायामपि समर्थनं करिष्यन्ति इति आशासे।
विश्वे विंशत्यधिक मुस्लिमदेशेषु अपि त्रितलाक इत्यस्मिन् प्रतिबन्धः अस्ति यथा पाकिस्तान-बाङ्ग्लादेशः-तुर्की,-अल्जीरिया-मलेशिया-इरान-श्रीलङ्का-जोर्डन-इराक-इन्डोनेशिया-आदयः। १९६१ तमे वर्षे पाकिस्तानेन त्रितलाकस्य प्रतिबन्धः उद्घोषितः परन्तु इदानीं यावत् हिन्दूराष्ट्रे भारतदेशे त्रितलाकस्य परम्परा दुःखस्य विषयः अस्ति। -इति वार्ता:।
No comments:
Post a Comment