Courtesy: Sri. Ramesh Prasad shukla
।।श्रीमते रामानुजाय नमः।।
प्रणामः
--------
"पद्म्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा।
वचसा मनसा चैव प्रणामोऽष्टाङ्ग ईरितः॥"
तस्य फलम्–
"भूमौ निपत्य यः कुर्यात् कृष्णेऽष्टाङ्गनतिं सुधीः।
सहस्रजन्मजं पापं त्यक्त्वा वैकुण्ठमाप्नुयात्॥"
"बाहुभ्याञ्चैव जानुभ्यां शिरसा वचसा दृशा।
पञ्चाङ्गोऽयं प्रणामः स्यात् पूजासु प्रवराविमौ॥
----------------
प्रणामः –
लिङ्गम् = पुं०।
व्युत्पत्तिः = प्र+णम+भावे घञ्।
अर्थाः = प्रणतिः। प्रणिपातः।
भक्तिश्रद्धातिशययुक्तनमस्कारः।
स तु स्वापकर्षबोधक-व्यापारविशेषः।
अवलम्बः = मुग्धबोधटीकायां दुर्गादासः।
स चतुर्विधः –
1-अभिवादनम्
2- अष्टाङ्गः
3- पञ्चाङ्गः
4- करशिरःसंयोगश्च ।
यथा–
भक्तिश्रद्धातिशययुक्तनमस्कारः । स तु स्वापकर्षबोधकव्यापारविशेषः । इति मुग्ध- बोधटीकायां दुर्गादासः ॥ स चतुर्व्विधः । अभि- वादनम् १ अष्टाङ्गः २ पञ्चाङ्गः ३ करशिरः- संयोगश्च ४ । प्रथमस्य लक्षणं तच्छब्दे द्रष्ट- व्यम् ॥ द्वितीयो यथा, -- "पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा । वचसा मनसा चैव प्रणामोऽष्टाङ्ग ईरितः ॥" तस्य फलम् । "भूमौ निपत्य यः कुर्य्यात् कृष्णेऽष्टाङ्गनतिं सुधीः । सहस्रंजन्मजं पापं त्यक्त्वा वैकुण्ठमाप्नुयात् ॥" तृतीयो यथा, -- "बाहुभ्याञ्चैव जानुभ्यां शिरसा वचसा दृशा । पञ्चाङ्गोऽयं प्रणामः स्यात् पूजासु प्रवरा- विमौ ॥" * ॥ प्रकर्षेण नमनम् । तद्विधिर्यथा, कालिकापुराणे । "शिरोमत्पादयोः कृत्वा बाहुभ्याञ्च परस्परम् । प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात् ॥" किञ्चागमे । "दोर्भ्यां पद्भ्याञ्च जानुभ्यामुरसा शिरसा दृशा । मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरितः ॥ * ॥ अपि च । "सकृद्भूमौ निपतितो न शक्तः प्रणमेन्मुहुः । उत्थायोत्थाय कर्त्तव्यं दण्डवत् प्रणिपातनम् ॥"
–इति श्रीहरिभक्तिविलासे
–रमेशप्रसाद शुक्ल
–जय श्रीमन्नारायण।
No comments:
Post a Comment