Courtesy: Sri.Triloknath Mishra
ॐ श्रीहरये नमः ॥ जयश्रीकृष्ण ॥
🌹🌴🌷🌹🌴🌷🌹🌴🌷🌹🌴
🌹🌹सन्ततिः सदा शिशुः इव🌹🌹
प्रातःकालादेव पुत्र कार्यं करोति स्म । ज्येष्ठमासः आसीत् समयः अपि दशाधिकवादनं जातमासीत् । अतः घर्मः अतितीक्ष्णः आसीत् । पितुः मुहुर्मुहुः कथनेऽपि पुत्रः कुटीरोपरितः अधः न अवतरति स्म ।
पित्रा एकोपायः कृतः ।
सः पौत्रं स्वीकृत्य घर्मे स्थितवान् । पौत्रः तु शिशुः आसीत् अतः तेन घर्मः न सोढः । अथ शिशुः रुदनम् आरभत ।
पुत्रः पितरम् असकृत अकथयत् यत् पितः पुत्रं छायायां नयतु ! सूर्यतापः अधिकः अस्ति ।
~~अधुना पुत्रस्य कथनं पिता न मन्यमानः आसीत् ।
•पुत्रः पितुः उपरि क्रोधितः जातः ।
~~भवान् शिशुं कथं रोदयति ? गृहान्तः कथं न गच्छति ?
•पितापि सरोषः वत्सम् अतर्जयत् ।
~~तूष्णीं भव । अधिकं मा वद । स्वपुत्रं रुदन्तं दृष्ट्वा त्वं पीडाम् अनुभवसि । त्वमपि तु मम पुत्रः असि । प्रातःकालादेव किञ्चित् खादनं पानं विना एव त्वं घर्मे कार्यं कुर्वन् असि । इदं मम कृते पीडाकरम् ।
अहमपि स्वपुत्रं बहुकालं घर्मे न द्रष्टुं शक्नोमि । त्वं यदि वृद्धः अपि भविष्यसि तदानीम् अपि त्वं मम कृते अयं शिशुः इव भविष्यसि । अधुना अवतरसि दण्डं खादितुम् इच्छसि वा ?
~~न न ! अवतरामि पितः । भवतः भावम् अधुनावगतवान् सम्यक्तया । क्षम्यतां पितः ! एवं पुनः न भविष्यति ।
~~अस्तु ।
मातृपित्रोः कथनं सर्वदा अङ्गीकरणीयम् ।
🌟🌟ॐ वन्दे मातरं पितरं च ॥🌟🌟
🌹जयतु संस्कृतम्॥ जयतु भारतम्॥🌹
No comments:
Post a Comment