Courtesy Smt. Bala Chiravuri
*आर्जवम्*
*सर्वतीर्थेषु वा स्नानं सर्वभूतेषु चार्जवम्।*
*उभेत्वेते समेस्यातामार्जवं वा विशिष्यते।।*
-- विदुरनीतिः।
सर्वतीर्थावगाहनं बहु पुण्यकरं भवति। तथैव सर्वभूतेषु ऋजुत्वगुणमपि श्रेयोदायकं भवति। कदाचित् तीर्थस्नानेनापि आर्जवं श्रेष्ठतमं भवति।
ऋजुत्वबुद्ध्या यः प्रवर्तेत तं सर्वाः प्रजाः अनुरज्यन्ति। अत्र दृष्टान्तेन सुधन्वा विरोचनयौर्मध्ये प्रह्लादस्य आर्जवगणं वर्ण्यते महाभारते। आत्मपुत्रोऽपि विरोचनं प्रति पक्षपातं विहाय केशिन्यै सुधन्वा एव विवाहं कर्तुं उत्तमः इति निर्णयः कृतवान् प्रह्लादः। तदर्थमेव पुत्रान् प्रति पित्रूणां ऋजुत्व विषये इदमेव दृष्टान्तं स्वीकुर्वन्ति इति विदुरेणोक्तम्।
आर्जवस्य प्रथमसोपानमस्ति सत्यसन्धता। मनोवाक्कायकर्मभिः यः सत्यमेव समाचरेत् स एव ऋजुत्वबुद्ध्या पर्वर्तितुं अर्हति।
जीवने आर्जवगुणसम्पन्नं सर्वेऽपि सम्मनयन्ति। किन्तु स्वेषु तं गुणं न इच्छन्ति। कदाचित् ऋजुत्वेन सह कटुवचनप्रयोगेण बहु क्लेशाः उपजायन्ते। कटुवचनमेव हितकरं भवति परिवारजनाय। परन्तु सर्वेऽपि प्रियमेव इच्छन्ति। तत्परिणाममस्ति बन्धुवैरम्। अनन्तरकाले ते ज्ञास्यन्त्येव ऋजुत्वेन को लाभ इति।
सन्तानाय पितरावेव मार्गदर्शकौ भवतः। तौ ऋजुत्वेन यदि प्रवर्तेत तयोः सन्ततिरपि अभिवृद्धिमवाप्स्यन्ति।दम्तपत्योर्मध्ये यदि ऋजुता नास्ति चेत् तदनुबन्धः विच्छिन्नकरो भवति। संप्रति तदेव दुःस्थितिरस्ति बहुषु कुटुम्बेषु।
अस्माकं नेत्रूणां आर्जवविहीनेनैव भारतदेशः विच्छिन्नकर अभवत्। एकदा गाँन्धी महाशयः परमाचार्यस्वामिनां सन्दर्श्य तत् कालीनः देशसमस्याः चर्चितवन्तः। तस्मिन् सन्दर्भे चातुर्वण्य व्यवस्था विषयमपि चर्चायां जनिता। शास्त्रप्रमाणेन स्वामिनः गाँन्धीमहाशयं प्रति विशदीकृतवन्तः। तान् वचनान् श्रुत्वा महात्मा अङ्गीकृतवन्तः । किन्तु ततः पूर्वमेव अस्पृश्यनिनादः जनबाहुल्ये विस्तारितः। अतः परामाचार्यस्वामिनः उपदेशः न बहिर्गतः।किन्तु गाँन्धी महाशयः यदि आर्जवेन तं विषयं बहिःप्रटितवन्तःतर्हि अधुना राजकीय नेतारः कुलविवादःन स्मरन्त्येव इति मे मतिः।
उपासनायामपि यदि एकं दैवमुद्दिश्यैव अनुष्ठानं कुर्मश्चेत् तं दैवमेव मनसि ध्येयम्।अयं विषयः मुद्गलपुराणेऽस्ति। तुलसी दीवी लक्षसहस्रपर्यन्तं विष्णुमेव पतिरिव लब्धकामा भूत्वा तपः करोति। तस्मिन् समये सा सौन्दर्ययुक्तं महागणेशं ददर्श। सा तस्मै प्रीत्या प्रार्थितवती मां वरय इति। ततः कुपितः गणेशः - "विष्णुः सर्वव्यापकोऽपि यं मनसि चिन्तयसि तमेव वृणोतु, अन्यं प्रति अभिलाषा न शोभते इति "तां प्रति स्वस्य अर्चनायां निषेधः कृतवान्। अत्रापि आर्जवस्य वैशिष्ट्यमस्तीति भावये।
🙏🌷बाला...✍
No comments:
Post a Comment