Courtesy Sri.Ravindra
विषयः - द्विकर्मकधातूनां कर्मणिप्रयोगे कारकव्यवस्था
प्रश्नः
कर्तरिप्रयोगः - "भिक्षुकः धनिकम् आहारं याचते" / "भिक्षुकः धनिकात् आहारं याचते" इति वाक्यद्वयमपि साधु |
अनयोः वाक्ययोः कर्मणिप्रयोगः कथं भवति ? अधस्तनयोः प्रयोगयोः कः प्रयोगः साधुः ?
"भिक्षुकेण धनिकः आहारं याच्यते" उत"भिक्षुकेण धनिकम् आहारः याच्यते" ?
उत्तरम्
"भिक्षुकेण धनिकः आहारं याच्यते" इत्येव साधुः प्रयोगः |
- द्विकर्मकधातूनां व्यवस्था एवं यत् कर्तरिप्रयोगे द्वयोः कर्मपदयोर्मध्ये यस्य विकल्पेन अन्यविभक्तिकत्वं भवति, तत् गौणकर्मपदम् इत्युच्यते | अन्यत् कर्मपदं द्वितीयाविभक्तौ एव भवति इति कारणतः तच्च पदं प्रधानकर्मपदम् |
- अत्र धनिक-शब्दः विकल्पेन धनिकं/धनिकात् इति कृत्वा गौणकर्मपदम्;आहार-शब्दः नित्यं द्वितीयाविभक्तौ'आहारम्' इति कृत्वा प्रधानकर्मपदम् |
- अतः "भिक्षुकः धनिकम् आहारं याचते" इत्यस्मिन् "आहारम्" इति प्रधानकर्मपदं च "धनिकम्" इति गौणकर्मपदम् |
- कर्तुरीप्सिततमं कर्म (१.४.४९) इत्यनेन आहार-शब्दस्य कर्मसंज्ञा, अकथितं च(१.४.५१) इत्यनेन धनिक-शब्दस्य कर्मसंज्ञा |
- षोडश औपदेशिकाः द्विकर्मकधातवः सन्ति ये सिद्धान्तकौमुद्याम् अनेन श्लोकेन निर्दिष्टाः |
दुह्-याच्-पच्-दण्ड्-रुधि-प्रच्छि-चि-ब्रू-शासु-जि-मथ्-मुषाम् |
कर्मयुक् स्यादकथितं तथा स्यात् नी-हृ-कृष्-वहाम् ||
- एषां षोडशानां द्विकर्मकधातूनां,तदर्थकानां च प्रयोगे प्रधानकर्मपदं च गौणकर्मपदं भवतः |
- कर्मणिप्रयोगे कर्मपदं प्रथमाविभक्तौ भवति इति अस्माभिर्बुध्यते | बालकः ग्रन्थं पठति → बालकेन ग्रन्थः पठ्यते, इति सामान्यज्ञानम् |
- किन्तु द्विकर्मकधातूनां योगे कर्मद्वये सति कर्मणिप्रयोगे द्वयोर्मध्ये कस्य कर्मणः प्रथमाविभक्त्यन्तत्वेन परिवर्तनं स्यात् इति प्रश्नः उदेति |
- कर्मणिप्रयोगे एषु षोडशसु धातुषु द्वादशानां गौणकर्मणः प्रथमाविभक्तिः;अवशिष्टानां चतुर्णां प्रधानकर्मणः प्रथमाविभक्तिः |
- "गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम्" इत्यनेन सिद्धान्तकौमुदीवचनेन कस्य कर्मणः प्रथमाविभक्तिः स्यात् इति निर्देशः प्राप्यते |
- द्विकर्मकधातूनां कर्मणिप्रयोगे कारकव्यवस्थायाः बोधसौकर्याय एते षोडश द्विकर्मकधातवः समूहद्वये विभक्ताः |
- प्रथमः समूहः दुह्-याच्-पच्-दण्ड्-रुधि-प्रच्छि-चि-ब्रू-शासु-जि-मथ्-मुष्इत्येषां सङ्ग्रहः; दुह्यादिगणः इत्युच्यते |
- दुह धातुः अदादिगणे अस्ति |कर्तरिप्रयोगे अयं गणः "दुहादयः"इत्युच्यते; कर्मणिप्रयोगे रूपम् अस्ति दुह्यते इति कारणतः दुह्यादयः इति उच्यते |
- द्वितीयः समूहः नी-हृ-कृष्-वह् इत्येषां चतुर्णां द्विकर्मकधातूनां सङ्ग्रहः |
- दुह्यादिगणे अन्तर्भूतानां धातूनां कर्मणिप्रयोगे गौणकर्मणः प्रथामाविभक्तिः -- "गौणे कर्मणि दुह्यादेः" |
- नी-हृ-कृष्-वह् इत्येषां कर्मणिप्रयोगे प्रधानकर्मणः प्रथामाविभक्तिः -- "प्रधाने नीहृकृष्वहाम्" |
- अस्य आधारेण दुह्यादिगणे अन्तर्भूतस्य याच्-धातोः कर्मणिप्रयोगे गौणकर्मणः प्रथामाविभक्तिः |
- अतः "भिक्षुकेण धनिकः आहारं याच्यते"इति प्रयोगस्य साधुत्वं सिध्यति यत्र गौणकर्म "धनिकः" प्रथमाविभक्त्यन्तं भवति |
- एवमेव, द्वितीयसमूहे अन्तर्भूतानां नी-हृ-कृष्-वह् इत्येषां धातूनां कर्मणिप्रयोगे प्रधानकर्मणः प्रथमविभक्तिः भवति |
- उदाहरणत्वेन, "बालकेन ग्रामं शुनकः नीयते", अत्र नी-धातोः कर्मणिप्रयोगे "शुनकः" इति प्रधानकर्मणः प्रथमाविभक्तिः |
- कर्मणिप्रयोगे क्रियापदं कर्मपदेन सह अन्वेति इत्यतः क्रियापदस्य वचनं कर्मपदस्य वचनम् अवलम्ब्य निर्णीयते |
- "भिक्षुकेण धनिकाः आहारं याच्यन्ते" इत्यस्मिन् वाक्ये कर्मण्यर्थे निष्पन्नं क्रियापदं "याच्यन्ते" इति बहुवचने, "धनिकाः" इत्यस्य बहुवचनान्तत्वात् |
- "बालकेन ग्रामं शुनकाः नीयन्ते" इत्यस्मिन् वाक्ये कर्मण्यर्थे निष्पन्नं क्रियापदं "नीयन्ते" इति बहुवचने, "शुनकाः" इत्यस्य बहुवचनान्तत्वात् |
- अन्ततो गत्वा द्विकर्मकधातूनां व्यवस्था एतादृशी अस्ति इति तु सत्यं; परन्तु यद्यपि दुह्यादीनां गौणकर्मणः प्रथमाविभक्तिः,तथापि वाक्ये गौणकर्मपदं नोक्तं चेत्,यत्कर्मपदम् उक्तं तस्यैव प्रथमाविभक्तिः |भिक्षुकः आहारं याचते → भिक्षुकेण आहारः याच्यते | एवमेव नी-हृ-कृष्-वह् इत्येभिः घटिते वाक्ये प्रधानकर्मपदं नोक्तं चेत्, यत्कर्मपदम् उक्तं तस्यैव प्रथमाविभक्तिः | बालकः ग्रामं नयति → बालकेन ग्रामः नीयते |
No comments:
Post a Comment