विपरीतं फलम् -
कस्मिञ्चित् पवित्रवने कश्चन सत्यवादी- तपस्वी तपस्यां कुर्वन्नासीत्|
तस्यां तपस्यां विघ्नं कर्तुं शचीपतिइन्द्रः योद्धुः रूपं धरित्वा हस्ते एकं खड्गमादाय मुनिं समीपे न्यसरूपेण दत्तवान्|
मुनिः न्यसरूपेण प्राप्तस्य तस्य खड्गस्य सुरक्षाहेतु यत्र यत्र सः गच्छति तत्र तत्र तं खड्गं नीत्वा गच्छति स्म|
तपस्या समये अपि तं खड्गं न दूरीकरोति स्म|
एतेन कारणेन तस्य मनसि विद्यमानः सात्विकगुणः शनैः शनैः अपसरति स्म| शास्त्रस्य स्थाने शस्त्रं भवति|
अत एव तस्य तपस्या न फलीभूता| यथा अग्नेः सामीप्येन काष्ठं दहति तथा शस्त्रधारकस्य मनसि विकारमुदभवत्|
अतः उच्यते शस्त्रस्य वासं शूर-वीरस्य हस्तम्| शास्त्रस्य निलयं सिद्धपुरुषस्य मनः| विपरीतस्य फलमपि एवमेव विपरीतं भवेत्| --गणान्तरात्।
No comments:
Post a Comment