Courtesy: Sri.shreyad mohan
===========
अथ शब्दानुशासनम्
============
अइउण् ।। ऋलृक् ।। एओङ् ।। ऐऔच् ।। हयवरट् ।। लण् ।। ञमङणनम् ।। झभञ् ।। घढधष् ।। जबगडदश् ।। खफछठथचटतव् ।। कपय् ।। शषसर् ।। हल् ।। इति प्रत्याहारसूत्राणि ।।
प्रथमोSध्यायः
=======
प्रथमः पादः
=======
(१.) वृद्धिरादैच् ।
(२.) अदेङ् गुणः ।
(३.) इको गुणवृद्धी ।
(४.) न धातुलोप आर्धधातुके ।
(५.) क्ङिति च ।
(६.) दीधीवेवीटाम् ।
(७.) हलोSनन्तराः संयोगः ।
(८.) मुखनासिकावचनोSनुनासिकः ।
(९.) तुल्यास्यप्रयत्नं सवर्णम् ।
(१०.) नाज्झलौ ।
(११.) ईदूदेद्द्विचनं प्रगृह्यम् ।
(१२.) अदसो मात् ।
(१३.) शे ।
(१४.) निपात एकाजनाङ् ।
(१५.) ओत् ।
(१६.) संबुद्धौ शाकल्यास्येतावनार्षे ।
(१७.) उञ ऊँ ।
(१८.) ईदूतौ च सप्तम्यर्थौ ।
(१९.) दाधा घ्वदाप् ।
(२०.) आद्यन्तवदेकस्मिन् ।
(२१.) तरप्तमपौ घः ।
(२२.) बहुगणवतुडति संख्या ।
(२३.) ष्णान्ता षट् ।
(२४.) डति च ।
(२५.) क्तक्तवतू निष्ठा ।
(२६.) सर्वादीनि सर्वनामानि ।
(२७.) विभाषा दिक्समासे बहुव्रीहौ ।
(२८.) न बहुव्रीहौ ।
(२९.) तृतीयासमासे ।
(३०.) द्वन्द्वे च ।
(३१.) विभाषा जसि ।
(३२.) प्रथमचरमतयाल्पार्धकतिपयनेमाश्च ।
(३३.) पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् ।
(३४.) स्वमज्ञातिधनाख्यायाम् ।
(३५.) अन्तरं बहिर्योगोपसंख्यानयोः ।
(३६.) स्वरादिनिपातमव्ययम् ।
(३७.) तद्धितश्चासर्वविभक्तिः ।
(३८.) कृन्मेजन्तः ।
(३९.) क्त्वातोसुन्कसुनः ।
(४०.) अव्ययीभावश्च ।
(४१.) शि सर्वनामस्थानम् ।
(४२.) सुडनपुंसकस्य ।
(४३.) न वेति विभाषा ।
(४४.) इग् यणः सम्प्रसारणम् ।
(४५.) आद्यन्तौ टकितौ ।
(४६.) मिदचोSन्त्यात् परः ।
(४७.) एच इग्घ्रस्वादेशे ।
(४८.) षष्ठी स्थानेयोगा ।
(४९.) स्थानSन्तरतमः ।
(५०.) उरण् रपरः ।
(५१.) अलोSन्त्यस्य ।
(५२.) ङिच्च ।
(५३.) आदेः परस्य ।
(५४.) अनेकाल्शित सर्वस्य ।
(५५.) स्थानिवदादेशोSनल्विधौ ।
(५६.) अचः परस्मिन् पूर्वविधौ ।
(५७.) न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णावुस्वारदीर्घजश्चर्विध
No comments:
Post a Comment