Courtesy:Smt. Bala chiraavoori
*मोक्षेच्छा*
एकदा परमाचार्याणां दर्शनार्थं एकः ग्रामरक्षकः अगमत्। हृत्स्थितं कष्टभारं तस्य मुखे प्रस्फुटेन दृग्गोचरो भवति।
"को विषयमिति पृच्छतु" शिष्यमुद्दिश्य उक्तवन्तः स्वामिनः।
स ग्रामरक्षकः" जन्मप्रभृति क्लेशान्येवानुभवामि। संतोषस्य स्मरणमेव नास्ति ।पुराकृतपुण्यविशेषेणैव
साक्षाद्दैवस्वरूपिणं भवन्तं दर्शयितुं आगन्तुं शक्नोमि।पुनः जन्मप्राप्तिर्न भूयादिति मां अनुगृह्णन्तु" इति प्रार्थितवान्।
"आहा.. तथैवास्तु। त्वं पुनः न जनिष्यति। त्वां मोक्षं देयामि।" इति न प्रोक्तं परमाचार्येण। अत्यन्त प्रेम्णा तां प्रति संभाषितवन्तः।
" तादृशं वरं दातुं न समर्थोऽहम्। किन्तु नित्यं मयाऽर्चितं त्रिपुरसुन्दरीसमेतचन्द्रमौलीश्वरं प्रार्थयामि त्वदभीष्टः सफलो भवत्विति" इति अवोचन्।
स ग्रामरक्षकः तदेव वरमिति मत्वा प्रसादं स्वीकृत्य गम्यमान काले " इतःपरं न जनिष्यामि। पुनर्जन्म मम तु नास्त्येव। एतदीश्वर शासनम्" इति संतोषेण अगच्छत्।
ज्ञानप्रदीपनेत्राभ्यां स्वामिनः" बहुकालादनन्तरं पुनरार्वृत्तिरहितशाश्वतशिवसायुज्यं अयमेक एव काक्षितः।" इति उक्तवन्तः।
मया श्रुत विषयमेकं स्मारितम्- एकः पण्डितः रामायणप्रवचनसन्दर्भे " श्रीरामः साक्षात् मानवावतारमेव। मनुष्य इवैव जनितः। मनुष्याचरणमेव कृतवान्। तर्हि जटायवे मोक्षं दातुं कथं समर्थः? नाम केवलं स्वधर्माचरणेनैव तथा साध्यते।"
सरस्युद्भवस्य पद्मस्य श्रेष्ठत्वं तत्रैव निवसन्तः मण्डूका, मीनाः न ज्ञायन्ते। परन्तु अतिदूरारण्ये स्थिता षट्पदी तस्य श्रेष्ठता ज्ञातुं शक्नोति। तस्मिन् मकरन्दं अस्तीत्यपि विजानाति। तं मकरन्दं पातुं यत्र कुत्रापि अन्विष्य तदास्वादयति।
🙏🙌कञ्चिपरमाचार्यवैभवात् अनूद्य...
बाला...✍
No comments:
Post a Comment