Courtesy Sri Ravindra
परिशिष्टम्
---------
गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् |
बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया |
प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मता ||
सिद्धान्तकौमुद्याः श्लोकेनानेन द्विकर्मकस्थले कस्मिन् कर्मणि प्रथमाविभक्तिः भवति इति सुचना प्राप्यते |
"गौणे कर्मणि दुह्यादेः" इत्यस्मात् दुह्यादीनां कर्मणिप्रयोगे गौणे कर्मणि प्रथमाविभक्तिः स्यात् इति निर्देशः |
कर्तरिप्रयोगः - पाचकः तण्डुलान् ओदनं पचति | पाचकः तण्डुलैः ओदनं पचति |
कर्मणिप्रयोगः - पाचकेन तण्डुलाः ओदनं पच्यन्ते |
"प्रधाने नीहृकृष्वहाम्" इत्यस्मात् नीहृकृष्वहां कर्मणिप्रयोगे प्रधाने कर्मणि प्रथमाविभक्तिः स्यात् इति निर्देशः |
कर्तरिप्रयोगः - सेवकः प्रकोष्ठं भारं वहति | सेवकः प्रकोष्ठे* भारं वहति | (प्रकोष्ठाय अपि समीचीनम् |)
कर्मणिप्रयोगः - सेवकेन प्रकोष्ठं भारः उह्यते |
"बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया" इत्यस्मात् बुद्ध्यर्थकानां, भक्ष्यर्थकाणां, शब्दकर्मकाणां णिजन्तावस्थायां निजेच्छया नाम वक्तुः इच्छया कर्मणिप्रयोगे गौणे कर्मणि अथवा प्रधाने कर्मणि प्रथमाविभक्तिः स्यात् इति निर्देशः |
कर्तरिप्रयोगः - शिक्षकः छात्रं विषयं बोधयति | "छात्रम्" इति गौणकर्मपदम् | "विषयम्" इति प्रधानकर्मपदम् |
कर्मणिप्रयोगः - शिक्षकेण छात्रः विषयं बोध्यते | शिक्षकेण छात्रं विषयः बोध्यते |
"प्रयोज्यकर्मण्यन्येषां ण्यन्तानां" इत्यस्मात् अन्येषां णिजन्तधातूनां प्रयोगे यत्र कर्मद्वयं युज्यते तत्र प्रयोज्यकर्मणि प्रथमाविभक्तिः भवति | अणौ—अणिजन्तस्थले—यः कर्ता अस्ति, सः प्रयोज्यकर्ता भवति णिजन्तस्थले | णिजन्तावस्थायां प्रयोज्यकर्ता कर्मत्वेन परिवर्तनं प्राप्य प्रयोज्यकर्म भवति |
कर्तरिप्रयोगः - पुत्रः विद्यालयं गच्छति → पिता पुत्रं विद्यालयं गमयति | "पुत्रः" प्रयोज्यकर्ता | कर्मत्वेन परिवर्तितं, "पुत्रम्" इति प्रयोज्यकर्म |
कर्मणिप्रयोगः - पित्रा पुत्रः विद्यालयं गम्यते |
No comments:
Post a Comment