Monday, December 11, 2017

Krishna, please come once again - sanskrit essay

       " कृष्ण " इति विदुषी दुर्गा भागवत महोदायाया:मराठी ललितगद्यस्य अनुवाद:।

कृष्ण! 

    कथं त्वं सम्बोधयामि?त्वं तु आकाश इव भाससे माम्!आकाशः सदैव अस्माकं शिरसि विद्यते।यत्र गच्छामः तत्र सैव साकं परं तस्य नीलवर्णः न कदापि स्पर्शसुलभः।

      सत्यं वच्मि… नाम्ना त्वं मनुरुपेण नैव कदापि कल्पनां आयासि।प्रथमः कल्पनामायाति आकाशस्य गहनगभीरनीलवर्णः। अनंतरं तव तरंगितः मयूरकलापः।

      भवत्सदृश: मनुजीवने एकाकार: नान्य को$पि देव:।  प्रत्येकं संबंधः त्वया समरसतया जीवितः। एवं प्रसंगे निर्लेपतया निर्मोहेन त्यक्तः। त्वं विना सः संबंधिः कथं जीवितः एतत् चिंतनं कृतं वा कदाचित्? 

     तव सर्वमतर्क्यमेव। त्वं सर्वान् प्रचलितनियमान् उल्लंघितः। जनिमलभत वसुदेवदेवक्योः मथुरायां, वर्धितं नंदयशोदयोः गोकुले। दधिदुग्धचौर्यकार्यं, बाल्येव गोपिकापीडनम् च। सुदामाअर्जुनउध्दवानां मित्रं आसीः। द्रौपद्याः सखापि त्वं हि। एतत् मधुरं मैत्रं भारतीयस्त्री कृते तव अनुपमयोगदानम्। पूर्वं स्त्रियाः पुरुषसखा एषा संकल्पना नास्त्येव अस्माकं संस्कृत्याम्। पुरुषः केवलं स्त्रियाः पिता पतिः पुत्रः वा भवेत् इति रीतिः। विवाहितराधिकायाः प्रियकरः अपि त्वमेव। प्रेमप्रतीकरुपेण राधायाः नाम तव पूर्वमस्ति।

      अष्टनायिकानां पतिं भूत्वा$पि जरासंधकारात् मुक्ताः षोडशसहस्रस्त्रियः अभयदाता अपि त्वमेव। तवावतारात् सहस्त्राधिकवर्षानंतरं सुरदासेन तव शैशवं गीतम्। मीरा त्वं " नटनागर गिरीधारी " इति संबोधितवती।

     सत्यं वद .. नैकसंबंधनिर्वहणादपि तव  चित्तं राधामयमेव खलु? गोकुलत्यागानंतरं त्वया वेणुवादनं कृतं इति न श्रूयते ।

     गीतायां " यदा यदा हि धर्मस्य.." इति उक्त्वा स्वस्य  पुनर्भवस्य वचनं त्वं अददाः। परमधुना संगरार्थं नागच्छ। वयं मानवाः एकेकः द्विप इव एकाकीनः। तेषु द्विपेषु सेतुबंधनार्थं एहि।

     यदा आगमिष्यसि तदा त्वया सह रुक्मिणी नास्ति तर्हि चलति। परं राधिकया सह आगच्छ। तस्मादेव तव वेणुवादनं श्रोष्यामः वयम्। 

     कृष्ण! पुनरेकवारमागत्य वंशीं स्वसुरभारितां कुरु।

अनुवाद:----  मानसी दीक्षित

No comments:

Post a Comment