Courtesy: Smt. Balaa Chiraavoori
चतुष्षष्टिलक्षात्मकजीवेषु मानवः सर्वश्रोष्ठो भवति। कथम्?
आहारनिद्राभयमैथुनानि सर्वेष्वपि जीवेषु समान एव। स्थावरजङ्गमाः सर्वेऽपि स्वोदरपोषणार्थं ,कुटुम्बभरणार्थं च क्लेशान् अनुभूय आहारंसम्पाद्य आनन्दजीवनं यापयन्ति। किन्तु अत्र मानवस्य श्रेष्ठत्वं किं भवति। सोऽपि तिर्यग्योनीनामिव केवलं लौकिकसुखार्थमेव जनितः? अस्य वैलक्षिण्यं किमस्ति? इत्युक्ते सामान्यतया वदन्ति, मानवः सर्वजीवेभ्यः आहारनिवासौ कल्पयति अत एव सः उत्कृष्टो भवतीति। किन्तु स्वकर्मानुरिणा एव सुखदुःखान्यनुभवन्ति प्राणिनः । अत्र मानवस्य अहंभावः कथम्? अहमेव कर्ता इति? केचित् वदन्ति ज्ञानवैशिष्ट्य कारणात् सर्वोत्कृष्टः मानव इति।
*ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे।*
*विषयाश्च महाभाग याति चैवं पृथक्पृथक्।।* इति।
पशुपक्षिमृगादय सर्वेऽपि स्वेषु स्वेषु विषयेषु ज्ञानसम्पन्ना भवन्ति। तदर्थमेव आपत्कालात्पूर्वमेव श्वानादयः विपदः अस्मद्भ्यः सूचयन्ति इति बहूनि दृष्टान्तानि पश्यन्तः समः।
तर्हि ज्ञानमित्युक्ते किं भवति? बहिरिन्द्रियज्ञानेन विषयाः विपुलाः भवन्ति। केवलं पञ्चज्ञानेन्द्रियकर्मेन्द्रियज्ञानेन विषयाः पञ्च पञ्च पञ्च् लक्षा वा अनेककोटयो वा गुणाः सिद्ध्यन्ति। पञ्चकर्मेन्द्रियाणि अन्तः निगृह्य कोऽहमिति नैरन्तर्यविचारणेन विषयलोलुपाः न भवेम। निरन्तरभगवत्कथाश्रवणेन, पठनेन, आलापनेन च भगवत्येव ध्यासां प्राप्तुं शक्नुमः। "मनो हि चञ्चलं कृष्ण" इति अर्जुनेनैव कथितम्। तर्हि अस्मत्सदृशानां मनवानां विषये किं वक्तुं शक्नुमः? तत्र उपायो को वा भवति? तदर्थमेव शंकरभगवद्पादेनोक्तम्-
*गेयं गीता नामसहस्रं*
*ध्येयं श्रीपतिरूपमजस्रम्।*
*नेयं सज्जनसङ्गे चित्तं*
*देयं दीनजनावनचित्तम्।।* इति।
मानवस्य जीवनं कथं यापनीयम्? जीवनविधाने अनुसरणीयाः धर्माः के सन्ति? मानवजन्मवैशिष्ट्यं किं भवतीति सर्वविधविषयान्यपि महात्मानः ऋषयः वात्सल्यरूपेण श्रुतिस्मृतिपुराणेतिहासेषु काठिन्यतया मृदुत्वेनापि अनुगृहीतवन्तः। भगवता धर्मसाधनार्थं सर्वविधपरिकराणि दत्तानि। किन्तु मानवः अहमेव कर्ता ,अहमेव भर्ता , अहमेव भोक्ता इति अहंकृत्य मनुष्यजन्मस्य कारणमेव विस्मृतवान्। संसारे निमग्नोऽपि संसारगतविषयचिन्तनविमोहेन जन्मवैशिष्टयं विजानाति मानवः।अयमेव तुरीयो जन्म। अस्मिन् जन्मनि एव सद्विचारणं कृत्वा सत्कर्माणि कुर्यात्। स्वधर्माचरणे सत्कर्माचरणे च अनेकानि प्रतिबन्धकानि आगच्छन्ति चेदपि त्यक्ताः मा भवेम।
तदर्थमेव नित्यस्मरणीया षट्पदी-
*अविनयमपनय विष्णो दमय मनःशमय विषयमृगतृष्णाम्।*
*भूतदयां विस्तारय तारय संसारसागरतः।।*
🌷🙏 बाला...✍
No comments:
Post a Comment