नवनीतचोरः
एकदा दुग्धं शोकातुरमासीत्| कश्चित् मानवः तत् पृष्टवान्- "भोः किमर्थं भवान् शोकमग्नः अस्ति?"
दुग्धमगदत्- "वदामि मम शोककथाम्| श्रुणोति वा भवान्?"
मानवः कुतूहलेन-"वदतु वदतु! अहं सिद्धोऽस्मि भवतः कथा श्रोतुम्|"- इति|
कथा एवमस्ति- "ह्यः अहं मम मातुः उदरे आसम्| एकदा एका स्त्री आगत्य मम मातरं दोहनं कृत्वा मां एकस्मिन् पात्रे पूरितवती| अहं मम मातु-वियोगेन अधिकशोकमग्नः आसम्| गृहमागत्य तत् पात्रं चुल्लिकायां स्थापितवती सा| एवं मां उष्णीकृतवती| उष्णकारणेन मया 'फुस् फुस्' इति शब्दं कृत्वा पात्रात् बहिः आगन्तुं प्रयासः कृतः| सपदि जल- स्पर्शेन मां शान्तं कृतवती सा| चुल्लिकातः अवतरितवती च| अधुना मया शीतलं प्राप्तम्| परन्तु झटिति सा किञ्चित् दधि मया सह मेलितवती| अग्रिमदिने मया दृढरूपं प्राप्तम्| मम नाम 'दधि' इति अभवत्| अधुना मां मथनेन मन्थनं कृत्वा मत्त एकं दृढपदार्थं प्राप्तवती सा स्त्री| एतावत् कष्टदानस्य अनन्तरमपि सा मह्यं विमोचनं न दत्तवती| मम नाम अधुना 'नवनीतम्' इति अभवत्| अहमधुना अत्यधिकश्वेतवर्णे अस्मि| अधुना मया चिन्तितं यत् मम कष्टविनारणमभवत्- इति|
न न| कष्टनिवारणं न अभवत्| इतोऽपि मया कृतानि पापानि स्युः| अधुना मां पुनः उष्णीकृतवती सा| अधुना मम नाम 'घृतं' - इति अभवत्| एवमनेकानि कष्टानि अनुभवानन्तरम् अहं शोकमग्नः अभवम्| - वदतु किम करवाणि?
मानवः उक्तवान्- भोः! भवान् तु अत्यधिक भाग्यवान् अस्ति!!
दुग्धम्ः- भाग्यवान्! कथम्?
मानवः- मानवः अधिक-कष्टस्य अनुभवानन्तरं सुखं प्राप्नोति इति मया श्रुतम्|मानवः कष्टकाले भगवन्तं स्मरति| कष्टनिवारणस्य अनन्तरं तं विस्मरिष्यति|
अत एव उच्यते-
सुखे सर्वे कुर्वन्ति स्मरणं, दुःखे न कोऽपि स्मरणम्|
सुखेऽपि स्मर्यते चेत् दुःखस्य आगमनं कथम्?
परन्तु भवान् प्रत्येकं स्थित्यां भगवतः कृते आत्मसमर्पणम् अकरोत्| श्रुणोतु| अन्तिमावस्थायां भवान् कुत्र गमिष्यति जानाति किम्? वैकुण्टधाम गमिष्यति!!!
दुग्धम्- किं वदति भवान्?|
मानवः- आम्! यदा भवान् दुग्धरूपे आसीत् तदा बालकस्य श्रीकृष्णस्य कृते सा स्त्री निवेदनं कृतवती| यदा भवान् दधि रूपं अधारयत् तदा दध्याह्नं कृत्वा श्रीकृष्णस्य कृते निवेदनं कृतवती | यदा भवतः रूपं नवनीतमासीत तत् तु वक्तुं न आवश्यकम्| श्रीकृष्णः स्वयमेव आगत्य नवनीतं चोरितवान्| एवमेव सः नवनीतचोरः इति नामधेयं प्राप्तवान्| अन्तिमावस्थायां अन्नेन सह घृतं मेलयित्वा पूजासमये श्रीकृष्णस्य कृते एव समर्पणं कृतवती| एवं सर्वेषु रूपेषु भवान् श्रीकृष्णस्य भोजनमभवत्| आहा ! जानाति वा अधुना कष्टस्य अनुभवं भवते कियत् पुण्यम् अददात्!!!!
हरे कृष्णः!!
वसन्ताश्यामलम्
नागपुरम्
{तात्पर्यमस्ति यत् एवं न चिन्तनीयं यत् अहं जीवने अधिकक्लेशमनुभवामि| दुःखपूरितसमये अपि भगवन्नाम जिह्वायां मनसि च धारयेत् चेत् परिणामः सफलीभविष्यति| भवान् दोहनसमये मातुः (या श्रीकृष्णस्य प्रतिमूर्तिः अस्ति) स्मरणमकरोत्, उष्णीकृतसमये अपि 'फुस् फुस्' (या अनन्तनागस्य ध्वनिः अस्ति) इति अशब्दायत| नवनीतं नाम प्राप्य अपि भवान् स्वश्वेतवर्णस्य कृते सन्तुष्टः अभवत्| अतः भवान् यदा परीक्षां करोति तदा तृप्तिं प्रापणीयं यत् एतस्य फलं सुखकरं भविष्यति – इति|}
No comments:
Post a Comment