Courtesy:Smt.Baala Chiraavoori
धर्मसङ्कटः-
मानवः बहुषु सन्दर्भेषु धर्मसङ्टस्थितिमनुभवति। किन्तु एषा धर्मसङ्कटस्तिरिति धर्मप्रवर्तक मानव एव जानाति। धर्मविषयैकज्ञानं नास्ति चेत् तस्यां स्थित्यां किंकर्तव्यमूढो भूत्वा अन्यान् निन्दयति अथवा खेदमनुभूय आत्मदूषणं करोति।
धारणात् धर्म इति धर्मस्य व्युत्पत्तिः। केवलं धर्म धर्म इति जल्पनेन धर्मत्वं न सिद्ध्यति। यः धर्ममार्गमनुसरति, धर्माचरणं करोति स एव धर्मसङ्टस्थितेः उद्धरति। तस्मिन् विषये केचन दृष्टान्तान् द्रक्ष्यामः।
स्वयम्वरसभायां दमयन्ती चतुर्षु नलरूपधारिषु स्वपतेःनिजरूपदर्शनाकाङक्षया भगवतीं सरस्वतीं प्रार्थयामास। तदा मात्रा तस्याः कर्णे स रहस्यः बोध्यते - "देवाः भूम्यां पादं स्प्रष्टं न समर्थाः, अनिमेषाः। अतः एतौ लक्षणौ यस्मिन् न ज्ञायेते स एव मनुष्यः, तदेव सत्यमिति। तथा दमयन्ती धर्मसङ्कटस्थित्यां भगवत्या विमोच्यते।
अम्बरीषः निर्जलैकादशीव्रतधरस्सन् द्वादशीपारणसमये आगतं दुर्वासमहर्षिं आतिथ्यार्थं निमन्त्रयामास। तस्य व्रतपरीक्षणार्थं दुर्वासः द्वादशीघटिका प्राप्येसत्यपि नदीस्नानात् न निवृत्तः। तस्यां स्थित्यां अम्बरीशः स्वगुरूणां सूचनानुसारेण तुलसीतीर्थमगृह्णात्। विष्णुभक्तिकारणेन , धर्मानुसरणेन च दुर्वासशापादपि रक्षितः।
धर्मस्वरूपेण यक्षेण प्रशंसितः युधिष्ठिरः चुतुर्षु भ्रातृषु एकैव जीविष्यति तं वरयेति उच्यते। सत्यधर्मपालकः धर्मजः नकुलस्य जीवनाय प्रार्थिवान्। अजेयपराक्रमसम्पन्नौ भीमार्जुनौ सहोदरावपि भवतः। परन्तु नकुलजीवनायैव वरमर्थितवान्। किमर्थंचेत् कुन्त्याःसन्ततेः ज्येष्ठः धर्मजः । सः देवपित्रादिकर्याणि कर्तुमर्हो भवति। तथैव माद्रीसुतः नकुलस्यापि ज्येष्त्वेन अर्हता भवति। तदर्थमेव नकुलमीप्सितः धर्मनन्दनः। तस्य निशितधर्मबुद्ध्या सन्तुष्टः यक्षः भीमादीन् सर्वानपि उज्जीवयामास।
बाला...✍
No comments:
Post a Comment