Friday, December 8, 2017

Deepavali sradham sanskrit

दीपावलीश्राद्धे उल्कां धृत्वा आकाशे पितृलोकेभ्य प्रदर्शनम्।
****************************
(१)
ओं अस्त्रशस्त्रहतानां च भूतानां भूतदर्शयोः।
उज्जलज्योतिषां देहं दहेन व्योमवह्निना।।
(२)
ओं अग्निदग्धाश्च ये जीवा येप्यदग्धाः कुले मम।
उज्जलज्योतिषा दग्धास्ते यान्तु परमां गतिम्।।
(३)
ओं क्रत्वादिदेवताः सर्वाः पितरश्च महर्षयः
सर्वे ते व्यपगच्छन्तु अनया ज्वलया सह।।
(४)
ओं पितृलोकं परित्यज्य आगता ये महालये।
उज्जलज्योतिषां मार्गं प्रपश्यन्तो व्रजन्तु ते।।
       (इति विसर्जनं नमस्कारश्च)

No comments:

Post a Comment