Monday, December 18, 2017

Brahmajaayaayai - Periyavaa Sanskrit essay

Courtesy:Smt.Baala Chiraavoori

जय-जाय

पञ्चत्रिंशत्संवत्सराणां प्राक् श्रीमठे नवरात्र्याराधनं पुरस्कृत्य सरस्वतीपूजनसनदर्भे प्रचलिता घटना एषा। यथाप्रकारं महास्वामिनः त्रिपुरसुन्दरीसमेतचन्द्रमौलीश्वरार्चनं परिसमाप्तिं कृत्वा तस्मिन्दिने मूलानक्षत्रकारणात् सरस्वतीपूजनं प्रारब्धवन्तः।एकाः वैदिकाः तेषां सन्निकटे एव स्थित्वा हस्तेस्थितेन पुस्तकेन सहायेन मन्त्रभागं भणन्ति। 

   संकल्पः, आवाहनम्, प्राणप्रतिष्ठा, अङ्गपूजा च समाप्त्यनन्तरं सरस्वत्यष्टोत्तरं पठितुं आरब्धवन्तः। एकैकस्य नामस्यान्ते" नमः" इति उच्यमानसमये स्वामिनः पुष्पं समर्पयन्ति।
वैदिकाः अष्टोत्तरशतनामावलिं पठन्तस्सन्तः" ॐ ब्रह्म जयायै नमः" इति पठिताः।
एतन्नामपठनानन्तरं स्वामिनः हस्तात् पुष्पं भगवत्याः पादे न स्पृशति।तथैव तेषां हस्ते एव अस्ति। तद्दृष्ट्वा पुनः वैदिकाः तं नाम एव उच्चारयन्ति। पुनस्तथैव स्वामिनः न समर्पयन्ति। पौनःपुन्येन पठित्वापि किंचिदपि चलनं नास्ति।

हस्ते पुष्पं गृहीत्वा तथैव स्थाणुवत् स्थिताः। किमपचारं क्रियेत? इति सर्वेऽपि व्याकुलिताः सन्ति। किमर्थं महास्वामिनः पुष्पं भगवत्यै न समर्पयन्ति?

अयं विषयः श्रीमठस्य सञ्चालकाय निवेदिताः। विश्वनाथ अय्यर् महाभागेन सह तेऽपि पूजास्थलमागत्य मन्त्रपाठकं प्रति पुनः उच्चारयत्विति आदेशितवन्तः।

" ॐ ब्रह्मजयायै नमः"

पुनस्तथैव पुष्पस्य स्थितिः भवति। भाग्येन तदा एव एकः संस्कृतविद्वान् प्रविष्टः।ते तन्नाम विचिन्त्य अनेन उच्चारणं करोतु इति आदेशं चकार।

"ॐ ब्रह्मजायायै नमः" इति।

तत्क्षणे एव स्वामिनः हस्तात् पुष्पं भगवत्याः पादयोः क्षिपति। 

को भेदौ द्वयोर्मध्ये?

ॐ ब्रह्मजयायै नमः-ब्रह्माणं जितायै अम्बायै नमः इति

ॐ ब्रह्मजायायै नमः- ब्रह्मणः पत्नै अम्बायै नमः इति। 

महास्वामिनः त्रिकरणशुद्ध्या एव अर्चनं कुर्वन्ति स्म।न तु यान्त्रिकेन । 

"यद्यदाचरति श्रेष्ठः तत्तदेवेतरोजनः।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते।।"

    🙏 🙌कञ्चिपरमाचार्यवैभवात् अनूदितं मया।

           बाला...✍

No comments:

Post a Comment