बा(वा)णलिङ्गम्
--------------------
बाणलिङ्गे च लौहे च सिद्धलिङ्गे स्वयंभुवि ।
प्रतिमासु च सर्वासु न चण्डोSधिकृतो भवेत् ।।
बाणलिङ्गम् –
बा(वा)णलिङ्गं, क्ली, बाणार्च्चनार्थं कृतं लिङ्गम् ।
अन्यास्य निरुक्तिरुक्ता हेमाद्रौ । यथा – "बाणः सदाशिवो देवो बाणो बाणान्तरो-ऽपि च ।
तेन यस्मै कृतं तस्माद्वाणलिङ्गमुदाहृतम् ॥")
नर्म्मदानद्युद्भवशिवलिङ्गम् –
यथा – नर्म्मदाजलमध्यस्थं बाणलिङ्गमिति स्मृतम् ।
बाणलिङ्गे स्वयम्भूते चन्द्रकान्ताह्वयं स्थितम् ॥
पार्थिवादिलिङ्गापेक्षया बाणलिङ्गस्य श्रेष्ठत्वम्यथा –
"कोमलेषु तु लिङ्गेषु पार्थिवं श्रेष्ठमुच्यते।"
हैरण्यं राजतात् श्रेष्ठं हैरण्याद्धीरकं वरम् ।
हीरकात् पारदं श्रेष्ठं बाणलिङ्गं ततः परम् ॥ (इति मेरुतन्त्रे ९ प्रकाशः)
अथ बाणलिङ्गलक्षणम् – वीरमित्रोदयधृतकालोत्तरे ।
"बाणलिङ्गं तथा ज्ञेयं
भुक्तिमुक्तिप्रदायकम् ।
उत्पत्तिं बाणलिङ्गस्य लक्षणं शेषतः शृणु ॥
नर्म्मदादेविकायाश्च गङ्गायमुनयोस्तथा ।सन्ति पुण्यनदीनाञ्च बाणलिङ्गानि षण्मुख ! ॥
"नद्यां वा प्रक्षिपेद्भूयो यदा तदुपलभ्यते ।बाणलिङ्गं तदा विद्धि न्यूनं सुखविवर्द्धनम् ॥"
बाणः सदाशिवो देवो बाणो बाणान्तरोऽपि च ।
तेन यस्मै कृतं तस्माद्बाणलिङ्गमुदाहृतम् ।
सदा सन्निहितस्तत्र शिवः सर्व्वार्थदायकः ॥कृतप्रतिष्ठं तल्लिङ्गं बाणाख्येन शिवेन च ।पङ्कजस्य फलाकारं कुण्डलस्य समाकृति ॥" "भुक्तिमुक्तिप्रदञ्चैव बाणलिङ्गमुदाहृतम् ॥"
याज्ञवल्क्यसंहितायां देवीं प्रति शिववाक्यम् –
"प्रशस्तं नार्म्मदं लिङ्गं पक्वजम्बुफलाकृति ।
मधुवर्णं तथा शुक्लं नीलं मरकतप्रभम् ॥हंसडिम्बाकृति पुनः स्थापनायां प्रशस्यते ।
स्वयं संस्रवते लिङ्गं गिरितो नर्म्मदाजले ॥पुरा बाणासुरेणाहं प्रार्थितो नर्म्मदातटे ।अविवासं गिरौ तत्र लिङ्गरूपी महेश्वरः ।बाणलिङ्गमपि ख्यातमतोऽर्थाज्जगतीतले ॥
–जय श्रीमन्नारायण
No comments:
Post a Comment