Wednesday, December 6, 2017

Ayam atma brahma sanskrit

।। श्रीमते रामानुजाय नमः।।

अयम् आत्मा ब्रह्म
--------------------- 

अशेषचिदचिद्वस्तुविशेषिणे शेषशायिने । निर्मलानन्तकल्याणनिधये विष्णवे नमः।।

अस्य जीवात्मनो ऽनाद्यविद्यासंचितपुण्यपापरूपकर्मप्रवाहहेतुकब्रह्मादिसुरनरतिर्यक्स्थावरात्मकचतुर्विधदेहप्रवेशकृततत्तदभिमानजनितावर्जनीयभवभयविध्वंसनाय देहातिरिक्तात्मस्वरूपतत्स्वभावतदन्तर्यामिपरमात्मस्वरूपतत्स्वभावतदुपासनतत्फलभूतात्मस्वरूपाविर्भावपूर्वकानवधिकातिशयानन्दब्रह्मानुभवज्ञापने प्रवृत्तं हि वेदान्तवाक्यजातम्, तत्त्वम् असि । अयम् आत्मा ब्रह्म । य आत्मनि तिष्ठन्नात्मनो ऽन्तरो यम् आत्मा न वेद यस्यात्मा शरीरं य आत्मानम् अन्तरो यमयति स त आत्मान्तर्याम्यमृतः । एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः । तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा+अनाशकेन । ब्रह्मविदाप्नोति परम् । तमेवं विद्वान् अमृत इह भवति नान्यः पन्था अयनाय विद्यत इत्यादिकम् ।

जीवात्मनः स्वरूपं देवमनुष्यादिप्रकृतिपरिणामविशेषरूपनानाविधभेदरहितं ज्ञानानन्दैकगुणं, तस्यैतस्य कर्मकृतदेवादिभेदे ऽपध्वस्ते स्वरूपभेदो वाचाम् अगोचरः स्वसंवेद्यः, ज्ञानस्वरूपम् इत्येतावदेव निर्देश्यम् । तच्च सर्वेषाम् आत्मनां समानम् ।

             –जय श्रीमन्नारायण

No comments:

Post a Comment