Wednesday, December 20, 2017

Arjuna"s pride - Sanskrit story

Courtesy: Smt. Bala chiraavoori
*अर्जुनगर्वभङ्गः* 

श्रीकृष्णप्रियसखस्य अर्जुनस्य मनसि एकदा गर्वमाविवेश। श्रीकृष्णःभगवान् अपि च स्वमित्रमिति कारणात् कृष्णं प्रति अधिकभक्तिविश्वासिनः ये सन्ति तेषु आत्मतुलनीयः नास्तीति तेन भाव्यते। सर्वज्ञः कृष्णः तस्य मनोभावं ज्ञात्वा एकदा तमपि नीत्वा विहारार्थं   अगच्छत्। किञ्चित् दूरं गच्छते सति ताभ्यां सुष्कतृणं भुञ्जानः, कटौ खड्गधारिणः एक विचित्रब्रह्मणः दृश्यते। तं दृष्ट्वैव सः अहिंसाव्रतधारी, परमभागवतोत्तम इत्यपि अर्जुनःमन्यते। सस्यतृणं सप्राणमिति मत्वा सः तं विसृज्य सुष्कमेव प्राणावसरार्थं भक्षयति - तर्हि खड्गं धृतवान् किमर्थमिति आश्चरयचकितो भूत्वा अर्जुनः श्रीकृष्णं प्रति इत्थं अवोचत्- " किमेतच्चित्रम्! तृणाङ्कुरमपि हिंसाविमुखः अहिंसाव्रतधरोऽयं मृत्युचिह्नं , द्वेषनिलयं खड्गं धृतवान्" । 

"  त्वमेव स्वयं पृच्छ" इति श्रीकृष्णः प्रत्यवोचत्।

तदा अर्जुनः तं ब्राह्मणं " स्वामिन्! त्वं कमपि प्राणिनं न हिंस्यति। सुष्कतृणमेव भुङ्क्त्वा प्राणान् धरति। तर्हि किमर्थमेतत् खड्गं धृतवान्?"इत्यपृच्छत्।

ब्राह्मणः- " चतस्रःजनाः मत्प्रत्यक्षे सति तान् शिक्षयितुं खड्गं  धरामि"।

अर्जुनः-" ते के?"

ब्राह्मणः- "प्रथमः स नीच नारदः"।

अर्जुनः- किम्? सः किमकरोत्"?

ब्राह्मणः- "किं कृतवान् वा? तस्य दौष्ट्यं पश्य। सर्वदा स्वकीर्तनेभ्यः, संगीतात् मत्स्वामिनं निद्राभङ्गं करोति। स्वामिनः सुखं प्रति लेशमात्रमपि न विचारयति। अहोरात्रौ सर्वकालसर्वावस्थास्वपि स्तोत्राणि, पारायणानि करोति। 

अर्जुनः- "द्वितीयः कः?"

ब्राह्मणः- " सा मतिहीना द्रौपदी"।

अर्जुनः- " तस्याः अपराधः कः"?

ब्राह्मणः- तस्याः अविवेकं , साहसमपि च पश्य। मत्स्वामिना भक्ष्यमाणे काले एव सा उच्चैर् रुदती प्रार्थितवती।मत्स्वामी तदन्नं विसृज्य अतिक्षिप्रेण काम्यकवनं धावित्वा दुर्वाससः शापात् पाण्डवान् अरक्षयत्।  अपि च तस्याः स्वातिशयं प्रति किं वदानि? तया भक्षितानन्तरं अवशिष्टान्नमपि स्वामी तस्याः प्रीत्यर्थं अभक्षयत्।

अर्जुनः- "तृतीयः कः?"

ब्राह्मणः- स निर्दयः प्रह्लादः। किं तस्य क्रौर्यत्वम्! निर्भयेन स्वामिनं आहूय अत्यधिकोष्णे तैलपात्रे मत्स्वामिनं स्थापितवान्। मत्तगजानां पादानां अथः स्वामिनं ताडयितवान्। वज्रसदृशं स्तम्भं विच्छिद्य बहिरानीतवान्। 

अर्जुनः- "चतर्थः कः?"

ब्राह्मणः- "एकः निर्भाग्यवानस्ति अर्जुनः सः। "

अर्जुनः-" सः किं पापमकरोत्?"

ब्राह्मणः- पश्य, तस्य दौष्ट्यम्! मज्जगन्नाथं नीत्वा कुरुक्षेत्रसङ्ग्रामे  स्वामिनं नीचात् स्वस्य रथसारथ्यं निर्वाहयितवान्। एतत् महापराधं ननु!"

अर्जुनः तस्य निर्धनब्राह्मणस्य भक्त्याः वैशिष्ट्यं ज्ञात्वा निश्चेष्टोऽभूत्। तत्क्षणे एव अपहतगर्वो भूत्वा भगवद्भक्तानां अहमेवाग्रगण्यः इति अहंभावात् विमुक्तः।

           🙏🌷श्रीरामकृष्णबोधामृतात् अनूद्य...

                      बाला...✍

No comments:

Post a Comment