Tuesday, November 21, 2017

What is moksha as per different schools of Hinduism ? - Sanskrit essay

*भारतीयदर्शनेषु मोक्षविचारः*

1. मृत्युः मोक्षः इति *चार्वाकाः*। 
2. आत्मोच्छेदः मोक्ष इति शून्यवादिनः *माध्यमिकबौद्धाः*। 
3. निर्मलज्ञानोदयः मोक्षः इति *इतरे बौद्धाः*। 
4. कर्मकृतस्य देहस्वरूपस्य आवरणस्य अभावे जीवस्य सततोर्ध्वगमनं मोक्षः इति *जैनाः*। 
5. सर्वज्ञत्वादीनां परमात्मगुणानां प्राप्तिः याथात्म्येन भगवत्स्वरूपानुभवश्च मोक्षः इति *रामानुजीयाः*। 
6. जगत्कर्तृत्व-लक्ष्मीपतीत्व-श्रीवत्सप्राप्तिरहितं दुःखामिश्रितं पूर्णं सुखं मोक्षः इति *माध्वाः*। 
7. परमैश्वर्यप्राप्तिः मोक्षः इति *नकुलीशपाशुपताः*। 
8. शिवत्वप्राप्तिः मोक्षः इति *शैवाः*। 
9. पूर्णात्मतालाभः मोक्ष इति *प्रत्यभिज्ञावादिनः*। 
10. पारदरसेन देहस्थैर्ये जीवन्मुक्तिः एव मोक्षः इति *रसेश्वरवादिनः*। 
11. अशेषविशेषगुणोच्छेदः मोक्षः इति *वैशेषिकाः*। 
12. आत्यन्तिकी दुःखनिवृत्तिः मोक्षः इति *नैयायिकाः*। 
13. दुःखनिवृत्तिः सुखावाप्तिश्चापि इति मोक्षः इति *नैयायिकैकदेशिनः*। 
14. स्वर्गादिप्राप्तिः मोक्षः इति *मीमांसकाः*। 
15. मूलचक्रस्थायाः परानामिकायाः ब्रह्मरूपायाः वाचः दर्शनं मोक्षः इति *पाणिनीयाः*। 
16. प्रकृत्युपरमे पुरुषस्य स्वरूपेण अवस्थानं मोक्षः इति *सांख्याः*। 
17. कृतकर्तव्यतया पुरुषार्थशून्यानां सत्त्वरजस्तमसां मूलप्रकृतौ अत्यन्तलयः प्रकृतेः मोक्षः, चितिशक्तेः निरुपाधिकस्वरूपेण अवस्थानं मोक्षः इति *पातञ्जलाः*। 
18. मूलाज्ञाननिवृत्तौ स्वस्वरूपाधिगमः मोक्षः इति *अद्वैतवेदान्तिनः*।

No comments:

Post a Comment