Wednesday, November 15, 2017

Virtue of Justice - Sanskrit essay

नैतिकमूल्यानां महत्वम्
आदिकालादेव मानवाः पशुवृत्तिं विहाय येन केनापि प्रकारेण प्राकृतिकधरातलात् उच्चैः स्थानं प्राप्तुं प्रयत्नशीलाः विद्यन्ते। अयं प्रयासः एव मानवस्य नैतिकतायाः प्रमाणमस्ति, अतः तेन अनेकानि नैतिकमूल्यानि सृष्टानि मूल्यचेतनायाः विकासः कृतः च । इदमेव मूल्यं संस्था-व्यवस्थासु, सर्जना-वर्जनासु विधिनिषेधेसु चापि व्याप्तमस्ति। इमानि नैतिकमूल्यानि शाष्वतं विद्यन्ते यानि प्रत्येकऽस्मिन् समाजे सर्वकालेषु समस्त वातावरणेषु च महत्वपूर्णानि वर्तन्ते ।
एतानि मूल्यानि मनुष्यस्य प्रारम्भिक जीवनात्समारभ्य अद्यावधि पर्यन्तं प्रासंगिकानि सन्ति एवं यावत् जीवने मानवतायाः बीजांकुरः विद्यते तावत् एतानि मूल्यानि प्रासंगिकानि भविष्यन्ति।
 नैतिकमूल्यानि मनुष्यस्य मूलप्रेरणायामाधारभूतानि सन्ति । एभिरैव राष्ट्रियचरित्रनिर्माणं भवति । मानवता नैतिक मूल्यानां समष्टिः वर्तते, अनया शक्त्या एव इतिहासः परिवर्तते । मानवजीवनस्य समस्ताभिव्यक्तीनाम् उपलब्धीनां सर्जनम् एतैः सम्भवति।
'नयनंनीतिः नीतेरिमानि मूल्यानि- नैतिकमूल्यानि'
यया मनुष्यस्य जीवनं सुचारुसफलं च भवति सा नीतिः कथ्यते । इयं नीतिः मात्र जनसमाजस्य कृते एव न अपितु जनानां नृपाणां समेषां च व्यवहाराय भवति । नीतिगत व्यवहारेण् प्रजानां शासकानां समस्तलोकस्य चापि कल्याणं भवति।
वैदिककालादेव ऋषयः, कवयः, नीतिकाराः, नीतिवाक्यानि कथाभिः श्लोकैश्च व्यरचयन् । इत्थं नीतिः व्यवहारविदे, शिवेतरक्षतये, सद्यःपरनिर्वृत्तये, कान्तासम्मिततयोपदेशयुजे चास्ति । सर्वत्र दया, ममता, करुणा, अहिंसा, स्नेहः, त्यागः, विश्वबन्धुत्वभावना, कर्तव्यनिष्ठा, पवित्रता, न्यायप्रियता, क्षमाशीलता, इन्द्रियनिग्रहश्च इमानि शाष्वत नैतिकमूल्यानि सन्ति ।
तीर्थाटनं, गुरुसेवा, मातृपितृसेवा, यजनं, याजनं, नदीसुस्नानं, संध्यावंदनं, षोडशसंस्काराः एते मुख्यरूपेण धर्मपदवाच्याः । एषु कर्मसु नीतेः मिश्रणं नास्ति । अतः धर्मो व्यापकः । धृतिः, दया, सहिष्णुता, परोपकाराद्याचरणेषु द्वयोः सांकर्यमस्ति । परमेतत् निश्चितं यत् द्वयोराचरणेन लोकस्य परमं कल्याणं जायते एव । नीतिकाराणां मते इमाः नैतिकतायाः गुणाः यथा-
जीवहिंसया विरक्तिः, पैशुन्यात् निवृत्तिः, सत्यभाषणं, अतिलोभात् वितृष्णा, दीनेभ्यः सत्पात्रेभ्यश्च दानम्, गुरुजनेष्वनुरागः, विनयशीलता, श्रद्धाश्च; अनुत्सेकः, अतिथिसत्कारः, न्याय-वृत्तिः, सत्संगानुरक्तिः, विपदिधैर्यं, अभ्युदये क्षमा, सदसिवाक्पटुता, समयस्य सदुपयोगः इत्यादयः नैतिकाचाराः । एषामाचरणेनैव व्यक्तेः समाजस्य, राष्ट्रस्य विश्वस्य च सर्वथा कल्याणं सम्पद्यते।
विद्यार्थिनां कृते महर्षिणा भर्तृहरिणां कथितम्-
"अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्द्धन्ते आर्युविद्या यशो बलम्।।"
स्त्रीणां प्रमुखो धर्मः श्रीमद्भागवतपुराणे वर्णितमस्ति-
"भर्तुः शुश्रूषणं स्त्रीणां परमोधर्मो ह्यमायया।
तद्बन्धूनां च कल्याण्यः प्रजानां चानुपोषणं"।।
निष्छलभावेन स्वपत्युः एवं तत्सम्बन्धिनां सुश्रूषाकरणं, सन्ततेः सम्यग्भरणपोषणमेव स्त्रीणां परमोधर्मः अस्ति । यदि पतिः दुश्चरित्रः, दुव्र्यसनी अपि भवेत् तर्हि स्त्रीणां कर्तव्यमस्ति -
"दुःशीलो दुर्भगो वृद्धो जडो रोग्यध्नोऽपिवा।
पतिः स्त्रीभिर्नहातव्यो लोकेप्सुभिरपातकी।।"
विचार्यमाणे साहित्ये आदिकालादेव सर्वेषु राष्ट्रेषु अयं विश्वासः प्रचलितः आसीत् । अन्येषु प्रयोजनेसु सत्स्वपि एकं मुख्यं प्रयोजनं नैतिक परिपोषः । पेटरः, अरस्तू, प्लेटो, होरेसादि सर्वेभारतीयैः आंग्लैः च विचारकैः काव्यस्य मुख्यप्रयोजनं नैतिकविकासः एव स्वीकृतः ।
नीतिशतकम्, दृष्टान्तशतकम्, पंचतन्त्रः, नीतिसारः, विदुलोपाख्यानम्, विदुरनीतिः, चाणक्यनीतिश्च इत्यादीनि बहूनि नीतिगर्भाणि पुस्तकानि उपलभ्यन्ते । वेदे अपि नैतिकमूल्यानि सुष्ठुरूपेण वर्णितानि सन्ति।
परन्तु अधुना वयं यानि मूल्यानि धारयामः तानि सम्भवतः भविष्यकाले समाजसन्तुलनाय, समायोजनाय च अहितकराणि, घातकानि च सन्ति; सनातनपरम्परां विस्मृत्य सन्देहास्पदस्थितौ च विद्यन्ते । पाश्चात्यसंस्कृतेः आधुनिकमानवसमाजः दिग्भ्रमितः वर्तते । सः उचितानुचितमूल्यांकनं कर्तुम् अशक्तः । केचन जनाः पूर्णरूपेण पाश्चात्यसंस्कृतौ एव लिप्ताः आत्मानं गौरवान्विताः चिन्तयन्ति । अतः आवश्यकमस्ति यत् वयं स्वप्राचीना भारतीय संस्कृतेः सभ्यतायाश्च अनुपालनं कृत्वा स्वचिन्तनं परिपुष्ट्य आवश्यकतानुरूपं आधुनिकप्राचीनपरम्परयोः समिश्रणं कृत्वा स्वजीवने योजयामः । यदि वयमधुना स्वनैतिकमूल्यानां ह्रासं न विरमेम तर्हि भविष्ये अस्माकं संस्कृतिः, सभ्यता, अस्मिता च संकटापन्ना स्थितौ भविष्यति; यस्य संरक्षणं, संवर्धनं च अस्माकं परं कर्तव्यमस्ति।
अतएव स्पष्टरूपेण वक्तुं शक्यते- आधुनिकविषमपरिस्थितौ नैतिकमूल्यानां आवश्यकता वर्तते। यतोहि प्राचीन साहित्येषु वेदेषु नैतिकमूल्यानां परम्परा प्रवहति, तत्पश्चात् नैकैः ऋषिभिः, मनीषिभिः स्व-स्व दर्शनसाहित्यं विविधरूपेषु प्रकटीकृतम्; येन मानवाः पूर्णरूपेण लाभान्विताः अभवन् । परन्तु अधुना पाश्चात्यसभ्यतायाः अन्धानुकरणे संस्कृतेः सभ्यतायाश्च ह्रासं दूरीकर्तुं नैतिकमूल्यानां महती आवश्यकता वर्तते ।।

No comments:

Post a Comment