वसुदेव सुतं देवं कंस चाणूरमर्दनं | देवकी परमानन्दं कृष्णं वंदे जगद्गुरुं ||
*पदविभाग: पदार्थ:*
वसुदेव: - कृष्णस्य पिता
सुतं - पुत्रं
देवं - देवं
कंस - कम्स नाम राक्षस:
चाणूर: - चाणूर नाम राक्षस:
मर्दनं - हतवान्
देवकी - कृष्णस्य माता
परमानन्दं - अधिक सन्तोषं
कृष्णं - श्री कृष्णं
वन्दे - नमामि
जगद्गुरुं - सर्वलोक नायकं
*अन्वय:*
(अहम्) वसुदेव सुतं देवं कंस चाणूर मर्दनं देवकी परमानन्दं जगद्गुरुं कृष्णं वंदे ||
*तात्पर्यम्*
अयं श्लोक: भगवान् श्री कृष्णस्य ध्यान श्लोकम् | स: वसुदेवस्य पुत्र: | स: कम्स चाणुर राक्षसौ हतवान् | स: तस्य माता देवक्यै अधिक सन्तोषं दत्तवान् | कृष्ण: अर्सजुनाय भगवद्गीता उपदेशं कृतवान् | स: एव सर्वलोकस्य नायक: | अहं एदृशान् श्री कृष्णं नमामि |
~ *शरवण:* 🕉
No comments:
Post a Comment