दर्पणसुन्दरी कथा
एकदा एकः वनमानवः वने सञ्चरन् आसीत् । अनति दूरे सः दर्पणस्य भागमेकं दृष्ट्वा आश्चर्येण स्वीकरोति । तावत् पर्यन्तं सः दर्पणं न दृष्टवान् आसीत् ! सः विस्मयेन तं पश्यति । स्वस्य प्रतिबिम्बं तत्र दृष्ट्वा सः चिन्तयति अहो एतत् मम पितुः भावचित्रमिति। गृहमानीत्य प्रतिदिनं तं दृष्ट्वा तूष्णीं उपविश्यति स्म।
एकस्मिन् दिने तस्य पत्नी इदं दृष्ट्वा किं तत् इति संशयेन सह सा दर्पणस्य भागं रहसि पश्यति । सा अपि तत् किं इति न जानाति स्म। परन्तु सा तत्र स्वस्य प्रतिबिम्बं दृष्ट्वा चिन्तयति एषा का नारी ? सुन्दरी अस्ति अतः मम पतिः प्रतिदिनं एतत् भावचित्रं पश्यति ! इति चिन्तयित्वा सा तस्याः श्वशृः समीपं गत्वा दुःखी भूत्वा सर्वं वृत्तान्तं वदति ।
सा अपि दर्पणस्य विषये किमपि न जानाति स्म । एकवारं तत् किं इति हस्ते स्वीकृत्य दृष्टवती । सा स्वस्य मुखं तत्र दृष्ट्वा हसति.. चिन्ता न करणीया पुत्री.. एषा कोऽपि वृद्धा अस्ति। बहुदिनानि एतत् सर्वं न शोभते! एषा तु अल्पदिनेषु एव मरणं प्राप्स्यति इति !!
😜😜😜😜
No comments:
Post a Comment