*भज गोविन्दम्*
प्रणायामं प्रत्याहारं नित्यानित्यविवेकविचारम् |
जाप्यसमेत समाधिविधानं
कुर्ववधानं महदवधानम् || ३०
_*पदविभाग:/पदार्ध:*_
प्रणायामं - प्राण अभ्यास:
प्रत्याहारं - इन्द्रिय निग्रहम् नित्यानित्य - नित्य अनित्य वस्तु
विवेक - ज्ञान
विचारम् - आत्मविचारम्
जाप्यसमेत - मन्द्र जप सहित
समाधिविधानं - समाधिविधानं
कुरु अवधनं - चिन्तय
महदवधानम् - अधिक जाग्रतया
_*अन्वय:*_
प्रणायामं प्रत्याहारं नित्य अनित्य विवेक विचारम् जाप्यसमेत समाधिविधानं महदवधानम् कुरु अवधानम् |
_*तात्पर्यम्*_
श्री श्री शङ्कर भगवत्भादर् भज गोविन्दम् विरचितवान् | स: द्वादश श्लोक: पर्यन्तम् अवदत् | तदानन्तरं तस्य शिष्या: एकैक श्लोक: अवदन् | स: एष: श्लोके इति उक्तवान -
प्राणायामं इन्द्रिय निग्रहं आत्मा नित्यम् प्रपञ्चं अनित्यं इति आत्म विचारं मन्द्र जपं समाधिविधानं - एतत् कार्यं त्वम् कुरु | यमं नियमं आसनं प्राणायामं प्रत्याहारं धारणा ध्यानं समाधि: - इति अष्ट अङ्क: सन्ति | अत: साधन चतुष्टयं लब्धुं प्रयत्नं कुरु | पश्चात् सदा आत्म विचारम् कुरु |
अत: गोविन्दं पूजय | गोविन्दं पूजय !
_*सारदे पाहिमाम् ! शङ्करा रक्षमाम् !!*_
- *_शरवण:_* 🕉
No comments:
Post a Comment