Sunday, November 26, 2017

Sanskrit subhashitam

स जीवति गुणा यस्य धर्मो यस्य स जीवति ।
गुणधर्मविहीनस्य जीवनं निष्प्रयोजनम् ॥ 

*_पदविभागः    प्रतिपदार्थः_*
सः  - सः
जीवति  - जीवनं करोति
गुणाः  - स्वभावाः
यस्य   - यस्य
धर्मः  -  मत
यस्य  -  यस्य
सः  -  सः
जीवति  - जीवनं करोति
गुणधर्मः -  धर्मस्य गुणः
विहीनस्य  - रहितस्य
जीवनं  -  जीवति
निष्प्रयोजनम्  -  निरर्थकम्

*_अन्वय:_*

यस्य (सत्) गुणाः (अस्ति) सः जीवति | यस्य (सत्) धर्मः (अस्ति) सः जीवति।धर्मगुणः विहीनस्य जीवनं निष्प्रयोजनम्।

 
*_तात्पर्यम्_*

*यः मनुष्यः सत् गुणेन सह जीवति सः सत् जीवनं करोति। तदैव य:  धर्म जिवनं करोति स:  अपि जीवति। एतस्य धर्मस्य गुणरहितस्य मनुष्यस्य जीवितं व्यर्थम् एव भवति। पूर्व जन्म पुण्येने वयम् सर्वे मनुष्य जन्मं प्राप्रवन्त: | अत: वयं सत् गुणेन सह धर्म न्याय मार्गे गन्तुम् प्रयत्नम् करिष्याम:* |


*_सन्धिः_*

सः + जीवति - विसर्गस्य लोपः
गुणाः + धर्मो - विसर्गस्य लोपः
धर्मः + यस्य - विसर्गः उकारः ,
                    गुणसन्धिः
सः + जीवति - विसर्गस्य लोपः
गुणधर्मः + विहीनस्य - विसर्गस्य लोप:

- _*शरवण:*_

1 comment:

  1. Are you from National Middle School/NHS in B’Gudi, Bengaluru?

    ReplyDelete