Thursday, November 23, 2017

Sanskrit subhashitam

*भज गोविन्दम्*

अर्थमनर्थं भावय नित्यं 
नास्ति तत: सुखलेश: सत्यम् |
पुत्रादपि धनभाजां भीति: 
सर्वत्रैषा विहिता रीति: || २९


_*पदविभाग:/पदार्ध:*_ 

अर्थं - धनम्
अनर्थं - अनर्थं
भावय - चिन्तय 
नित्यं - सदा 
नास्ति - नास्ति
तत: -  तत:
सुखलेश: - स्वल्प सुखमपि
सत्यम् - सत्यम्
पुत्रात् - पुत्रात्
अपि - अपि 
धनभाजां - धनवान्
भीति: - भयम्
सर्वत्र - सर्वत्र
एषा - एषा 
विहिता - भवेत्
रीति: - नियमं

_*अन्वय:*_

अर्थं अनर्थं नित्यं भावय |
तत: सुखलेश: (अपि) सत्यं नास्ति |
धनभाजां पुत्रादपि भीति: (भवति) | एषा रीति: सर्वत्र विहिता |


_*तात्पर्यम्*_

श्री श्री शङ्कर भगवत्भादर् भज गोविन्दम् विरचितवान् | स: द्वादश श्लोक: पर्यन्तम् अवदत् | तदानन्तरं तस्य शिष्या: एकैक श्लोक: अवदन् | स: एष:  श्लोके  इति   उक्तवान -

लोके जना: धनमेव अवश्यकं इति चिन्तयन्ति | परन्तु त्वं धनमेव अनर्थस्य मूलम् इति भावय | धनात् किञ्चितपि सुखं न भवति | एतत् सत्यमपि | धनवान तस्य पुत्रात् अपि भीति: अभवत् | एतत् रीति: सर्वत्र वयं अपश्यन् |

धन सम्पादनं कष्टम् | तत् संसक्षणं बहु कष्टम् | तत् भोगं कुर्वन् अपि मनसे दु:खम् अभवत् | अत: धन परिग्रहं दु:खमेव | 

श्री श्री शङ्कर: इति उक्तवान्
*अमेधसो हि श्रीरनर्थाय भवति* | अत: धन परिग्रहं सुखं न ददाति | 

अत: सदा गोविन्द नाम स्मरणं कुरु | गोविन्दं पूजय | गोविन्दं पूजय !

_*सारदे पाहिमाम् ! शङ्करा रक्षमाम् !!*_

- *_शरवण:_*  🕉

No comments:

Post a Comment