को नामाचर्य:? - यो ह्याचारं ग्राहयति,छात्रोपयोगिविषययान् संगृह्णाति, छात्रबुद्धिं विकासयति च,स आचार्य: ।
उक्त च निरुक्ते -
आचार्य: कस्माात्?
आचारं ग्राहयति । आचिनोत्यर्थानं । आचिनोति बुद्धिमिति वा ।।
य: सदाचार- शिक्षणपिर्वकं छात्रेषु जितेन्द्रियत्वं पोषयत्,स आचार्य: । अतो गुरूचार्यो वा सदा देववत् पुज्य: ।
*गुरुनिन्दाकरणीया सर्वदा विश्वासः भवेत् गुरौ।*
*आत्मज्ञानं गुरुणैव नारायणः मिलति तदैव च।।*
वेदादिशास्त्रमर्मज्ञान्
सदसन्मार्गबोधिन: ।
विद्याप्रदायिनो नौमि
नित्यं प्रियगुरून् हृदा ।।
अज्ञाननाशरूपाय
विद्याबुद्धिप्रदायिने ।
वरदाय सुदिव्याय
सुगुरवे नमो नम: ।।
शिक्षकदिवसावरे निखिलशिक्षकानां चरणेषु शब्दपुष्पमिदं समर्पये।
शिक्षकदिवसस्य अवसरेSस्मिन् नैकश: शुभकामना: ।
💐💐💐💐💐
🙏 🙏 🙏 🙏 🙏
🌷🌷🌷🌷🌷
No comments:
Post a Comment