मानवः प्रकृत्या ज्ञानरतः, अन्वेषणशीली च। यत्किञ्चिद् नवमनुभोक्तुं, नूतनं ज्ञातुं च सः सदा प्रयतते। बालाः अपि एकत्रैवोषित्वा नीरसाः भवन्ति। गृहादन्यत् स्थलं गत्वा, नवं किञ्चित् दृष्ट्वा तेषां मनःसु उत्साहः जागर्ति। नवीनस्थानसन्दर्शनेन विज्ञानं च प्राप्यते तैः। युवानः अपि विद्याप्राप्तये, वृत्तिनिर्वहणाय वा स्वस्थलाद् अन्यत्र गत्वैव नवान् अनुभवान् भुञ्जन्ति। पुस्तकपठनेन तु पुस्तकज्ञानं वर्धते। लोके अटनेन पुनः अनुभवपूर्वकं ज्ञानं संवर्धते। नवेषु परिस्थितिषु भूतेषु, प्रसङ्गानगुणं कथं भवितव्यं, समस्यासु च जागृतासु कथं व्यवहर्तव्यं, केन, कुत्र कथञ्चाचरणीयं, समयानुगुणं निर्णयाश्च कीदृशाः स्वीकर्तव्या इति च समस्तं अनायासं ज्ञायते। ये अटनशीलास्ते व्यवहारपटवः, वाक्पटवश्च, परेङ्गितज्ञाः सहजं भवन्ति।
केचिद् गृहे उषित्वा एकत्रैव कार्यरताः भवन्ति। ते कुत्रापि गन्तुं नेच्छन्ति। तेषां ज्ञानं स्थानपरिमितं भवति। केचित्तु कार्यवशाद्वा, मनोरञ्जनार्थं वा सदा प्रयाणशीलाः इतस्ततः भ्रमन्ति। आधुनिककाले यातायातसाधनानां बाहुल्यं प्रयाणशीलानामनुकूलतां प्रददाति। प्राचीनकाले पादयात्रयैव परिभ्रमणं भवति स्म। विविधप्रदेशान् अटित्वा नानाप्रकारकान् जनान् दृष्ट्वा, तेषां जीवनशैलीः च ज्ञायन्ते देशाटकैः। नैकाः भाषाः, आचाराः, वस्त्राणि, वृक्षाः, पशवः, आहार-व्यवहाराः, पर्वाणि, उत्सवाः, वृत्तयः, कृषिकार्यं, स्थानविशेषाः, नदीनदाः, पर्वताः, गृहादिनिर्माणानि, प्राचीनसौधानि, कार्यालयभवनानि, मन्दिराणि, स्त्रीपुरुषाः, बालाः, विद्याव्यवस्थाः, विवाहपद्धतयः- किं बहुना, जीवने सर्वे अंशाः नूतनाः, रोचकाः, वैविध्यभरिताश्च ज्ञातुं शक्यन्ते। परिभ्रमणशीलाः यदा स्वीयानुभूतीः लिखितरूपेण लिखेयुः, तेन बहवो जनाः लाभान्विताः भवेयुः। बाणः देशाटनव्यसनी आसीदिति कारणेनैव स्वीयकृत्यां कादम्बर्यामनन्तं वस्तु न्यस्तवान् इति सुप्रसिद्धेनाख्यानेन ज्ञायते।
देशाटनस्य अन्यत् पार्श्वमपि भवति। अतिमात्रेण देशाटनेन कदाचित् मनसि अस्थिरतापि जायेत। धनव्ययः अमितः भवति। अटनशीलाः कदापि एकत्र स्थातुं दायित्वं निरोढुं च नेच्छन्ति। यत्र कुत्रचित् अवश्यं सर्वदा गन्तव्यमेव तैः- इति मनःस्थितिः सुस्थिरा भवति। अनेकस्थानेषु, अस्थिररूपेण च स्थित्या, विविधप्रकारकजलानां पानेन, अन्नानां खादनेन, निद्रादीनां कालभङ्गेन च कारणेन तेषाम् अस्वास्थ्यमपि भवेत्। देशाटकानां विवाहसम्बन्ध-कुटुम्बभार-पुत्रपुत्र्यादि-निर्वाहः, पित्रोः धुर्या च दुःसहाः भवन्ति। जीर्णशरीरे जातेऽपि मनः एकत्र स्थातुं सन्नद्धं न भवति। तथापि देशाटनं बहुभ्यः रोचते॥
💥💐😊🙏
No comments:
Post a Comment