संस्कृतस्य गौरवम्
===========
संस्कृतभाषा संसारस्य भाषासु प्राचीनतमा । केषाञ्चित् पण्डितानां मते एषा सर्वासामेव भाषाणामुद्गमः, परमन्येषां मते एषा केवलं भारतस्यानेकासां भाषाणां जननी । एवं चापि एतस्याः गौरवम् न्यूनं नास्ति । भारतस्यानेकाः भाषाः यस्याः संस्कृतभाषायाः पुत्र्यः सन्ति, सा भारते तु महत्त्वपूर्णाSस्त्येव ।
संस्कृतभाषायां संसारस्य प्राचीनतमं साहित्यमस्ति । इतिहासज्ञाः कथयन्ति यत् वेदानां साहित्यमेव सर्वेषु साहित्येषु प्राचीनतममस्ति । वेदाः च संस्कृतभाषायामेव लिखिताः सन्ति । वेदेषु सर्वविधिं ज्ञानं पश्यामः ।
वेदाः तु सर्वासां विद्यानां मूलम् । ते वेदाः चत्वारः सन्ति—ऋग्वेदः, यजुर्वेदः, सामवेदः अथर्ववेदश्च । विना कारणमपि वेदानामध्ययनं द्विजस्य कर्त्तव्यं कथयन्ति स्म अस्माकं पूर्वजाः । वस्तुतः वेदाः संस्कृतस्य गौरवम् ।
वेदैः सम्बद्धं नानाविधं साहित्यमपि संस्कृतभाषायामेवास्ति । वैदिक-वाङ्मयस्यपठनेन वयं न केवलमार्याणां संस्कृतिमेव बोधामः, अपितु सुखं , शान्तिं चाधिगन्तुं कर्त्तव्यं च बोद्धुं समर्थाः ।
संस्कृतभाषायामेव रामायणम्, महाभारतम्, पुराणानि, पञ्चन्त्रम्, जातककथाः, कथासरित्सागरः इत्यादयः इतिहासग्रन्थाः कथाग्रन्थाः च सन्ति । न तादृशं ग्रन्थं वयमन्यस्यां कस्यामपि भाषायां पश्यामः यादृशं महाभारतं संस्कृतभाषायमस्ति । एतस्य ग्रन्थस्य पठनेन इतिहासस्य, युद्धनीतेः, धर्मनीतेः, राजनीतेःच ज्ञानं भवति । महाभारत-विषये उचितमेव कथितम्—
"धर्मे अर्थे च कामे च मोक्षे च भरतर्षभ ।
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ।।"
भासः, कालिदासः, भवभूतिः, बाणः, भारविः, माघः, हर्षः, दण्डी इत्यादयोSनेके कवयः लेखकाश्च संस्कृतभाषायाः एव वरदाः पुत्राः सन्ति । एतेषां ग्रन्थानां पठनेन चित्तं रसे निमग्नं भवति, मनुष्यः च संसारस्य कष्टानि विस्मृत्य आनन्दमनुभवति । आंग्लीयाः कालिदासं शेक्सपीयर-सदृशं नाटककारं कथयन्ति । परमस्माकं विचारे कालिदासस्य साहित्यं शेक्सपीयरस्य साहित्यात् उत्कृष्टतरमस्ति । एवञ्च संस्कृतसाहित्यस्य तुलनायां संसारे नास्ति अन्यासां भाषाणां साहित्यम् ।
किं बहुना, संस्कृतभाषायामेवास्माकं संस्कृतेः, बीजानि, एषा च भारतस्य गौरवम् । अतः एतस्याः पठनमत्यावश्यकम् ।। गणान्तरात्।
No comments:
Post a Comment