Wednesday, November 29, 2017

Let us protect sanskrit

वयं संस्कृतं रक्षामः
                   हरि ॐ
                  नमोनमः

            प्राक्तन् काले संस्कृतस्य विलोपस्य बहूनि कारणानि आसन् , परन्तु आधुनिकसमाजे संस्कृतस्य विलोपस्य कारणं किम् ? एतत् प्रश्नं दृष्ट्वा केचन जनाः चिन्तयिष्यन्ति , "आधुनिकसमाजे संस्कृतस्य विलोपं कदा अभवत्" ? तेषां मतानुसारम् आधुनिकसमाजे संस्कृतस्य बहु प्रचारप्रसारं भवति । "जम्मुतः आरंभ्य केरलं यावत्" सर्वत्र संस्कृतस्य प्रचारं भवति । "राजधानीतः आरंभ्य ग्रामं यावत्" सर्वत्र संस्कृत शिविराणि भवन्ति । "पुस्तकतः आरंभ्य ध्वनिमूर्दिकां यावत्" सर्वत्र संस्कृत संगीतानि सन्ति । तर्हि कथं संस्कृतस्य विलोपम् अभवत् ।
           एतेषां प्रश्नानाम् उत्तरम् अहम् एकेन वाक्येन दातुमिच्छामि --"यदि आधुनिकसमाजे संस्कृतस्य बहु प्रचारं भवति तर्हि कथं संस्कृत विद्यालये , महाविद्यालये , विश्वविद्यालये छात्राणां सख्यां न्यूनतरं भवति" ।
अधुना भारतवर्षे चर्तुरदश संस्कृत विश्वबिद्यालयाः सन्ति , तत्र कथं छात्राणां संख्या वृद्धिः न भवति । भारतवर्षे बहूनि संस्कृतमहाविद्यालयाः सन्ति , परन्तु कति महाविद्यालयाः सन्ति , कति छात्राः तत्र पठन्ति कोऽपि न जानाति । संस्कृतमहाविद्यालये अपि बहूनि समस्याः सन्ति । कुत्रचित् शिक्षकाणाम् अभावः , कुत्रचित् कक्षाणाम् अभावः , कुत्रचित् छात्राणाम् अभावं दृश्यते । तासां समस्यानां समाधानार्थं कोऽपि तत्परः न भवति । विद्यालयछात्राः केवलम् उत्तमान् अकांन् प्राप्तिरार्थं संस्कृतं पठन्ति , ते संस्कृतस्य महत्वं न जानन्ति । 
              अधुना बहवः संस्कृतविद्यालयाः पिधानाः अभवन् । छात्राणां शिक्षकानाम् अभावः भवति मुख्यकारणम् । संस्कृतं क्लिष्टं , विद्यालयस्य परिवेशः अपि सम्यक् नास्ति । साधारणविद्यालयस्य छात्राणां कृते छात्रावृत्ति प्राप्तं भवति परन्तु संस्कृतछात्राः छात्रवृत्ति प्राप्तं न कुर्वन्ति । संस्कृतछात्राणां कृते छात्रवृत्ति अस्ति , सर्वे तत् विषये न जानन्ति । संस्कृतबिद्यालये पठनात् अनन्तरं छात्राः साधारणमहाबिद्यालये पठितुं सक्षमाः न भवन्ति । संस्कृतविद्यालये शिक्षकाः अपि आधुनिकतया न पाठयन्ति , तेषां पठनशैली अपि अतिपुरातनम् । एतानि भवन्ति संस्कृतविद्यालयस्य विलोपस्य कारणानि । 
           साधारणविद्यालये ये ये बालकाः पठन्ति तेषां मुख्य लक्ष्यं भवति संस्कृतेन उत्तम अकांन् प्राप्तं,नतु संस्कृतमहाविद्यालये पठनम् । ये खलु पठितुम् आगच्छन्ति ते महाविद्यालस्य दुर्दषां दृष्ट्वा तेषां मनोबलः भंगः भवति । उत्तमशिक्षकाणांपाठ्यपुस्तकानाम् , छात्रावासस्य अभावः भवति संस्कृतमहाविद्यालयानां विलोपस्य मुख्यं कारणम् । 
              विश्वविद्यालये एतादृश्यः समस्याः न दृश्यन्ते । छात्राणां कृते बहवः शिक्षकाः तिष्ठन्ति । विश्वविद्यालयस्य परिवेषः बहुः रुचिकरः भवति । सर्वाणि पाठ्यपुस्तकानि तत्र प्राप्तानि भवन्ति। क्रीडास्पर्धाः संस्कृत प्रतियोगितानि अपि तत्र भवति । परन्तु पठानान्तरं उत्तमं उद्योगं प्राप्तं न भवति तदर्थं वहु छात्राः पठितुं न गच्छन्ति । ये खलु गच्छन्ति तत्र कानिचन वर्षाणि पठित्वा पुनः गृहं प्रत्यागच्छन्ति । अत्र आगत्य संस्कृतं विहाय अन्य क्षेत्रे कार्यं कुर्वन्ति । संस्कृतविश्वबिद्यालये केवलं "शिक्षाशास्त्री" विभागं विहाय अन्य कुत्रापि छात्राणां संख्या वृद्धिं न भवति । शिक्षाशास्त्री भवति उद्यागार्थं सरलमार्गम् , तदर्थं तस्मिन् विभागे छात्राणां संस्खा कदापि न्युनं न भवति । 
            यदि बिद्यालयशिक्षकाः संस्कृतस्य महत्वं छात्राणां कृते वोधयिष्यन्ति तर्हि छात्राः महाबिद्यालयं गमिष्यन्ति । महाबिद्यालये उत्तमः परिवेशः निर्माणः भविष्यति , शिक्षकाः सरलतया पाठयिष्यन्ति , शिक्षकानां वृद्धिं भविष्यति तर्हि महाबिद्यालयात् विश्वबिद्यालयं पठितुं छात्राः गमिष्यन्ति । विश्वबिद्यालयः केवलं पठनार्थं उत्तम परिवेशेन साकं यदि उद्यगार्थं उत्तमपरिवेशं निर्माणं भविष्यति तर्हि सर्वे संस्कृतं पठितुम् आगमिष्यन्ति ।
छात्राणां संगठनं नास्ति तदर्थं संस्कृतमहाबिद्यालयः, विश्वबिद्यालयः च उन्नतिं न भवति । परिचालकाः स्वेच्छयाः सर्वाणि कार्याणि कुर्वन्ति । यदि छात्रसंगठन संस्कृतमहाबिद्यालयविश्वबिद्यालयौ समस्याः सर्वेषां कृते सुचयिष्यति तर्हि समस्याः समाधानं भविष्यति । संगठनेन विना किमपि कार्यं न भवति । यदि संस्कृतछात्राणाम् संगठनं भविष्यति तर्हि संस्कृतस्य प्रचारं भविष्यति । छात्रै सह यदि शिक्षकाः प्रचारकार्ये अग्रे आगमिष्यन्ति तर्हि आबालबृद्धवनितानां कृते संस्कृतं सरलं भविष्यति ।

सुनील कुमार पाणिग्राही

No comments:

Post a Comment