।।श्रीमते रामानुजाय नमः।।
"कप्यासं पुण्डरीकाक्षम्"
-----------------------------
योनित्यमच्युत पदाम्भुज युग्मरुक्म व्यामोहतस्तदितराणि तृणाय मेने ।
अस्मद्गुरोर्भगवतोऽस्य दयैकसिंधोः
रामानुजस्य चरणौ शरणम् प्रपद्ये ॥
"रामानुज सम्बन्धान्मुक्तिमार्ग:"
'कप्यासं पुण्डरीकाक्षम्' –
पूर्वपक्षितार्था ' ? उच्यन्ते:- कपिः – आदित्य '"कपि – चलने ? इति धातु ; कं पिबतीति च कपिः , कपिबभरित तेजनम् ? इति वैदिकप्रयोग ; तस्य (आसम् ) मण्डलम् - कप्यासम्; यथा आदित्यमण्डलं हृदयपुण्डरीकं च उपासनस्थानम्, एवम् अक्षिणी अपि उपासनस्थानम् - इत्येकोऽर्थः । 'अयं नोपपद्यतेः – उपा स्यस्येति षष्ठयन्तं पदमध्याहार्यम्, उपासनस्थानमिति च ' अध्याहार्यम्; एवं पदद्वयाध्याहारः ; समानविभक्तयन्तयोः पदयोः स्वतः प्राप्त सामानाधिकरण्यम्।
अत्र अर्थान्तरमुच्यते गम्भीराम्भस्समुद्भूत इति । कम् – जलम्, अस – भुवि ' ' अपिपूर्वक , **वष्ट भागुरिलोपमवाप्योरुपसर्गयो । इति वचनात् अपेः अत्र अलोपः; कप्यासम् – सलिले विद्यमानमित्युक्तं भवतेि । एवं , वाक्यकारोक्तार्थत्रयकथनेन ' " तस्य यथा कप्यासम् पुण्डरीकमेव मक्षिणी ? इति
श्रुतिवाक्यं व्याख्यातं भवति । 'रामः कमलपत्राक्षः', 'पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोद कम् ' , 'प्रसन्नवदनं चारुपद्मपत्रोपमेक्षणम् ', 'जितन्ते पुण्डरीकाक्ष' ! इत्यादिभिः पद्मपत्रसाम्यकथनात् पुण्डरीकस्य दलाभ्यामेव।
साम्यमिति दर्शयितुं दलशब्दः प्रयुक्त । यथा....पुण्डरीकम् , एवमक्षिणी । इत्युक्त 'पुण्डरीकात् अधिकगुणनिवृत्तिः मा भूत् ' इति आयतशब्दमयोगः । एवम् । इति सामान्येन पुण्डरीकाक्षेषु अतिदिष्टषु तद्वतदोषतिदेशो मा भूदिति अलशब्द एवमधिकगुणान्वयं दोषराहित्यं च अभिप्रेत्याभियुतैरुक्तम् – "अदीर्थ मप्रेमदुघं क्षणोज्ज्वलं न चोरमन्तःकरणस्य पश्यताम्, अनुब्जभब्जं नु कथं नेिदर्शनं, वनाद्रिनाथस्य विशालयोः दृशोः !" इति ।
–रमेशप्रसाद शुक्ल
–जय श्रीमन्नारायण।
No comments:
Post a Comment