Thursday, November 2, 2017

Hill stations - Sanskrit

*⛰⛰ पर्वतीयप्रदेशे ⛰⛰*

निर्झरा वहन्ति,
विहगाः हसन्ति। 
हरिततृणानि 
पशवः चरन्ति।

क्वचिदातपः,
क्वचिच्च वर्षाः। 
कियत्यद्भुता 
निसर्गशोभा। 

शुद्धमुदकम्, 
निर्मलो वायुः। 
इच्छाम्यत्रैव
गच्छेद् मदायुः।।

हिंस्राःपशवः,
कुटिला मार्गाः। 
पर्वताः खलु,
दूरतो रम्याः!

No comments:

Post a Comment