Thursday, November 2, 2017

Dr.Ramabhavu Poojari- Sanskrit essay

             श्रद्धेय डॉ. रामभाऊ पुजारी

महोदयः कामठीजनपदे अजायत। वृत्या सः अभियंता। षड्वर्षत: महोदयः गुरुकुले अधितवान्। षोडशवर्षैव तेन बनारसहिंदुविश्वविद्यालयत: आयुर्वेदे सुवर्णपदकेन सह आचार्य पदवी प्राप्ता।अनुपमोपलब्धिः एषा। आयुर्वेदारिक्त वेदविद्या (Vedic science), योग एवं ज्योतिष् विषये$पि तस्य महान् अधिकार:।

     आयुर्वेदाध्ययनानंतरं शासकीय तंत्र निकेतन विद्यालयतः सः स्थापत्यशास्त्रे अभियंतापदवीं प्राप्तवान्। तथा च शासकीयसिंचनविभागे अभियंतारुपेण योजितवान्।कोलकतातः AMIE प्रशिक्षणं यशस्वीतया पूर्णं कृत्वा तस्मिन्नेव विभागे जेष्ठस्थानं प्राप्तवान्। 

    विदर्भे चिखलदरा,सहस्रकुंड,नारनाला च जलविद्युतप्रकल्पउपस्थापने तेषां रचनायां च तस्य अग्रसहभाग:। स्वस्य गभीरज्ञानेन कल्पनया च तेन जलाकर्षणसिंचनपद्धति: विकासिता। एषा  पध्दति: पारंपारिकी,  बिंदुसिंचन च पद्धत्यै पर्यायीपध्दतिः।

स्वकार्येण साकं तेन २५०० प्राचीनग्रंथानां तथा ५०००धिकहस्तलिखितानां संग्रहः संरक्षणं च कृतम्।

     प्राचीन तथा आधुनिकविज्ञानस्य १४ शाखात: लेखानां संकलनं Pride Of India नामकग्रंथे तेन संपादितम्। एतादृशानां ग्रंथानां संकलनसंरक्षणार्थं रामकृष्णनगरे तेन ग्रंथालय: स्थापित:। एषः ग्रंथालय: विविधक्षेत्राणां अभ्यासकानां कृते मार्गदर्शकरुपेण वर्तते।

     यदा सः प्रशिक्षणार्थं कोलकतां गतवान् तदा रामकृष्णमिशनसंस्थया सह तस्य संपर्कः जातः। तस्यां संस्थायां साधुषु सः लोकप्रियः आसीत्।तदनंतरं राष्ट्रीयस्वयंसेवकसंघस्य संपर्कात् सः संघस्य नैकायै संस्थायै कार्यं कृतवान्। यथा संस्कृतभारती -शिल्प संशोधन प्रतिष्ठान- प्राच्य विद्या प्रतिष्ठान इत्यादयः।

     ३५- ४० वयसि ४ हृदयाघातादपि सः ७८ वर्षे यावत् जीवितः। महान् चमत्कारः एषः।

     महोदयस्य निधनेन संस्कृतं- संस्कृतिः- वेदविद्या-प्राच्यविद्या-आयुर्वेद…..एतादृशानां कतिपय क्षेत्राणां अपरिमीता हानिः जाता।


    । । ओम् शान्तिः शान्तिः शान्तिः । ।

No comments:

Post a Comment