कामः 03/10/17
%%%%%%%%%%%%%%%%%%%%%%%%
कामो वै एषणा अस्ति मैथुनेच्छा तथैव च।
अभिलाषा जीवने या च स्नेहः कामस्तथैव च।।
कामः षट्सु विकारेषु हि प्रथमस्तु स्मृतो हि वै।
त्याज्यस्तु विकारो$यं ऋषयः कथयन्ति सर्वदा।।
संगात् संजायते कामः कामात् क्रोधो$भिजायते।
गीतायामुक्तं यच्च विकारेषु हि बीजमिवाभवत्।।
'रसो वै सः'हि वेदेषु रसरूपो भगवान् स्वयम्।
कामो रसः स भगवान् तु कथं त्याज्यो न ज्ञायते।।
देवानां कामदेवो$स्मि 'कृष्णस्योक्तिरियं हि वै।
रसराजस्तु कृष्णः खलु कथं त्याज्यो न ज्ञायते।।
सृष्टेरादिभूतो यो यश्च वै सृष्टिप्रवर्तकः।
कथं त्याज्यो न जानामि जिज्ञासा मनसि वर्तते।।
पुरुषार्थेषु मुक्तेः प्राक् कथं त्याज्यो विसंगतिः।
अनेन न त्याज्यः कामस्त्याज्या कामान्धता सदा।।
यथा वृत्या हि इन्द्रस्तु पूर्वे अहल्या प्राप्तवान् तदा।
गुरुपत्नीं गृह्णाति यथा चन्द्रो बाला हरति रावणः।।
इयं कामान्धता त्याज्या वरणीयस्तु काम एव हि।
दाम्पत्यविधिना सेव्यःकामस्तु हितकारकः सदा।।
डा गदाधर त्रिपाठी
No comments:
Post a Comment