सप्त विभक्तयः 24/08/17
%%%%%%%%%%%%%%%%%%%%%%
बालको याति आयातौ तदा अत्र बालकौ द्वौ।
बालकाःभोजनंकुर्वन्ति वै सः पश्यति हि बालकम्।।
बालकौ दृष्ट्वा न गच्छति सःबालकान्
पाठयति सदा।
बालकेन सह क्रीडति वै
बालकाभ्यां सह तु खादति।।
बालकैः मिलित्वा भवति हृष्टः
बालकाय ददाति सर्वदा।
बालकाभ्यां पुस्तकं दत्वा
बालकेभ्यः यच्छति धनं मुदः।।
बालकात् लेखिनीमादाय
बालकाभ्यां गृह्णाति सः जलम्।
बालकेभ्यो वै दुग्धमादाय तु
पीत्वा प्रसन्नो भवति।।
बालकस्य गृहं पश्य
बालकयोर्वै पश्य कौतुकम्।
बालकानां वार्ताः श्रुत्वा
मोदमानो भवति हि सः।।
बालके विश्वसति सो नित्यं
बालकयोः ज्ञानमाधृतम्।।
बालकेषु वसति सर्वा शोभा
तान् स्मरामि क्षणे क्षणे।।
हे बालक! प्रसन्नो भव हे बालकौ!तमाहूय गच्छतु।
हे बालकाः!आगच्छन्त्वत्र वरदा भवतु सरस्वती।।
डा गदाधर त्रिपाठी
No comments:
Post a Comment