|| संस्कृतबोधपरीक्षा ||
प्रथमप्रश्नपत्रस्य उत्तरपुस्तिका
०१. बालिका मन्दिरं गच्छति |
०२. मार्जार: मूषकं पश्यति |
०३.शिशु: वायुयानं पश्यति |
०४. बाल: क्रीडनकं याचते |
०५. केशव: पय: न पिबति |
०६. मनुष्य: मृत्युं न पश्यति |
०७. नास्तिक: वेदं न पठति |
०८. बधिर: शब्दं न शृणोति |
०९. पङ्गु: वृक्षं न आरोहति |
१०. मौनी वार्तां न करोति |
११. मूक: वाक्यं न वदति |
१२. अलस: कर्म न करोति |
१३. कृपण: धनं न ददाति |
१४. सज्जन: मिथ्या न वदति |
१५. मुगल: मांसं खादति |
१६. अजा तृणं चरति |
१७. सर्प: मूषकं निगिलति |
१८. श्रेष्ठी ताम्बूलं चर्वति |
१९. कन्या वरयते रूपम् |
२०. अन्ध: सूर्यं न पश्यति |
२१. चौर: धनं चोरयति |
२२. बालकृष्ण: नवनीतं चोरयति |
२३. रावण: सीताम् अपहरति |
२४. दण्डाधिकारी अपराधिनं दण्डयति |
२५. यम: पापिनं दण्डयति |
२६. तापस: कष्टं सहते |
२७. नीचमनुष्य: गोहत्यां करोति |
२८. धर्मिष्ठ: धर्मं रक्षति |
२९. भक्त: सूर्यं प्रणमति |
३०. जननी शिशुं चुम्बति |
३१. गौ: वत्सं लेढि |
_________________________
विवरणम् -
( क ) कर्तृपदानि -
बालिका , मार्जार: , शिशु: बाल: , केशव: , मनुष्य: , नास्तिक: , बधिर: , पङ्गु: , मौनी , मूक: , अलस: , कृपण: , सज्जन: , मुगल: , अजा , सर्प: , श्रेष्ठी , कन्या , अन्ध: , चौर: , कृष्ण: , रावण: , दण्डाधिकारी , यम: , नीचमनुष्य: , धर्मिष्ठ: , भक्त: , जननी , गौ: |
( ख ) कर्मपदानि -
मन्दिरम् , मूषकम् , वायुयानम् , क्रीडनकम् , पय: , मृत्युम् , वेदम् , शब्दम् , वृक्षम् , वार्ताम् , वाक्यम् , कर्म , धनम् , मिथ्या , मांसम् , तृणम् , ताम्बूलम् , रूपम् , सूर्यम् , नवनीतम् , सीताम् , अपराधिनम् , पापिनम् , कष्टम् , गोहत्याम् , धर्मम् , शिशुम् , वत्सम् |
( ग ) क्रियापदानि तेषाम् मूलधातवश्च -
गम् - गच्छति
दृश् - पश्यति
याच् - याचते
पा - पिबति
पठ् - पठति
श्रु - शृणोति
रुह् - रोहति , आरोहति
कृ - करोति
वद् - वदति
दा - ददाति
खाद् - खादति
चर् - चरति
नि+ गृ - निगिलति
चर्व् - चर्वति
वृ - वरयते
चुर - चोरयति
अप + हृ - अपहरति
दण्ड - दण्डयति
सह् - सहते
रक्ष् - रक्षति
प्र+नम् - प्रणमति
चुम्ब् - चम्बति
लिह् - लेढि
__________________
अभ्यासनिर्देश: -
०१. उपरिलिखितानाम् शब्दानां सर्वासु विभक्तिषु रूपाणि स्मरन्तु | यथा -
बालिका. बालिके बालिका:
बालिकाम् बालिके बालिका :
बालिकया - - - - - -- - - - - -
इत्यादीनि |
०२. गम आदि धातूनाम् वर्तमानकालिकरूपाणि स्मरन्तु |
यथा -
गच्छति गच्छत: गच्छन्ति
गच्छसि. गच्छथ: गच्छथ
गच्छामि. गच्छाव: गच्छाम:
इत्यादीनि | अन्येषामपि धातूनां लट्प्रत्ययान्तरूपाणि लिखन्तु |
०३. उपरिलिखितानाम् शब्दानां विविधवाक्येषु प्रयोगं कुर्वन्तु |
_________________________
No comments:
Post a Comment