Thursday, October 26, 2017

Reference of vaisampayana in Kurma purana - Sanskrit

कूर्म पुराण, पूर्व भाग, अध्याय ५२-द्वापरे प्रथमो व्यासो मनुः स्वायम्भुवो मतः॥१॥
द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः॥२॥
तृतीये चोशना व्यासश्चतुर्थे स्याद् बृहस्पतिः। सविता पञ्चमे व्यासःषष्ठे मृत्युः प्रकीर्तितः॥३॥
सप्तमे च तथैवेन्द्रो वसिष्ठश्चाष्टमे मतः। सारस्वतश्च नवमे त्रिधामा दशमे स्मृतः॥४॥ 
एकादशे तु त्रिवृषः (ऋषभ देव) शततेजास्ततः परः। त्रयोदशे तथा धर्मस्तरक्षुस्तु चतुर्दशे॥५॥
त्र्यारुणिर्वै पञ्चदशे षोडशे तु धनञ्जयः। कृतञ्जयः सप्तदशे ह्यष्टादशे ऋतञ्जयः॥६॥
ततो व्यासो भरद्वाजस्तस्मादूर्ध्वं तु गौतमः। राजश्रवाश्चैकविंशसतस्माच्छुष्मायणः परः॥७॥
तृणविन्दुस्त्रयोविंशे वाल्मीकस्तत्परः स्मृतः। पञ्चविंशे तथा शक्तिः षड्विंशे तु पराशरः॥८॥
सप्तविंशे तथा व्यासो जातूकर्णो महामुनिः। अष्टाविंशे पुनः प्राप्ते ह्यस्मिन् वै द्वापरो द्विजाः। 
पराशरसुतो व्यासः कृष्णद्वैपायनो हरिः॥१०

No comments:

Post a Comment