डुकृञ्करणे
ॐ श्रीगुरुभ्यो नमः ।
भजगोविन्दे श्लोके, भगवत्पादाचार्य अवदत् "नहि नहि रक्षति डुकृञ्करणे" इति । बहवः जना अस्य पादस्य अर्थं वदन्ति यत्-- "व्याकरणेन मोक्षप्राप्तिर्न भवति", "व्याकरणस्य मोक्षहेतौ, मोक्षविषये, किमपि उपयोगो नास्ति" इति च । ते "व्याकरणं क्या करणम्?" इति चेष्टामपि कुर्वन्ति यतः संस्कृतभाषां न जानन्ति। वस्तुतोऽस्य वाक्यस्य एषोऽर्थोऽयोग्यः। कथं तत्? व्याकरणं वेदस्य मुखं प्रोक्तम्। मुखं विना कथं श्रुतिर्वक्तुं शक्नोति? कथं च वयं श्रोतारः श्रोतुं शक्नुमः? ज्ञानाय व्याकरणमवश्यकमेव।
डुकृञ्करणे-शब्दः महर्षिपाणिनिकृतः पारिभाषिकश्चास्ति । किन्तु कोSपि कथं न चिन्तयति "केन कारणेन भगवत्पादः द्विसहस्रधातुनां मध्ये अस्य डुकृञ्-धातोरेव प्रयोगं कृतवान्"? अत्र डुकृञ्, अथवा कृ- धातुः, करणे अर्थे अस्ति । अर्थात् कृधातोरर्थः "कर्मणः करणम्" इत्यस्ति । अतो भगवत्पादः "ज्ञानेन एव मोक्षो भवति" इति लक्षयित्वा, कृधोतोः प्रयोगं कृतवान् । ततः श्लोके यो वाक्यः तस्य एषोऽर्थो भवति-- "कर्मणा मोक्षप्राप्तिर्न सम्भवति। नापि कर्मणा समुच्चयेन"। अर्थात् "नहि नहि रक्षति डुकृञ्करणे" अस्य वाक्यस्य अर्थः "नहि नहि रक्षति कर्माणि" इत्येव योग्यः।
ओं तत् सत् । --गणान्तरात्।
No comments:
Post a Comment