Thursday, September 7, 2017

sloka on Vittala & Rukmini

समचरण सरोजं सांद्रनिलांबुदाभम्
जघननिहितपाणीं मंडनं मंडनानाम्
तरुणतुलसीमाला 
कंधरं कंजनेत्र सदय धवलहासं 
विठ्ठलं चिंतयामी||

तीरे सत्सरितस्तिरस्कृतधनासक्तिर्विरक्तिप्रियः पादाम्भोजमिदं मदंकसहितः संचिंतयांतर्हृदि
पश्चात् ते कटिमात्र एव भविता संसारवार्धिर्न चेत्
शिक्षामिति हि लक्षयत्यनुदिनं स्वावस्थया *विठ्ठलः*(वादिराजतीर्थकृत तीर्थप्रबंध)

सिंजन्नुपूरशोभिपादकमलां मंदस्मितोद्यन्मुखीं
कंजाक्षीं कुचभारभीरुविलसत्मध्यां क्वणत्कंकणाम्
शंभ्वाद्यैः परिसेवितां सुवसनां जाम्बुनदालंकृतां
अंबां ताम् प्रणतोस्मि कृष्णरमणीं लंबालकां रुक्मिणीम्||(रुक्मिणीशविजय)

No comments:

Post a Comment