Thursday, August 3, 2017

subanta & Tingta in Sanskrit

|| सुप्तिङन्तं पदम् ||
पदं सुबन्तं भवति उत तिङन्तम्| 

सुबन्तम् - सुप् अन्तम् सुबन्तम्|  सुप् इति प्रत्याहारः| ( अक्षराणां *संक्षेपिकरणं प्रत्याहारः| संक्षेप्यन्ते वर्णाः यस्मिन् स प्रत्याहारः*|) 
*उदा*- अक्किति प्रत्याहारे *अ इ उ ऋ ऌ* इति गृह्यते | एवमेव सुप्पिति प्रत्याहारे २१ प्रत्ययाः अन्तर्गता

 *सु*  औ  जस
अम्  औट्  शस्
 टा   भ्याम् भिस्
 ङे   भ्याम्  भ्यस्
ङसिँ भ्याम्  भ्यस्
ङस्  ओस्  आम्
 ङिँ   ओस्   सु *प्*
  
एते सुबन्ताः| सुबन्तेषु  नाम (शब्दरूप) अव्यय ( निपाता)दि अन्तर्भवन्ति|

तिङन्तम् - तिङ् अन्ते यस्मिन् तत् तिङन्तम् | 
तिङितित्यपि १८नाम् प्रत्ययानाम् प्रत्याहारः|

( परस्मैपदि आख्यातप्रत्ययाः)
 
तिप्   तस्   झि
सिप्   थस्   थ
मिप्    वस्   मस्

( आत्मनेपदि  आख्यातप्रत्ययाः)

ता     आताम्     झ
थास्  आथाम्    ध्वम्
इट्      वहि      महिङ्

धातवः ( उपसर्गाः) तिङन्ते अन्तर्भवन्ति |

No comments:

Post a Comment