Thursday, July 20, 2017

Sanskrit joke

😅😂
अध्यापिका— बाल, अद्य कुतः खिन्नो दृश्यसे?
बालः— माता मे चिकित्सालये अस्ति। पिता मे रक्षकगृहे वर्तते।
अध्यापिका— अहो, खेदकरोऽयं विषयः। अपि त्वं गृहं गन्तुमिच्छसि?
बालः— आम्। 
(निर्गच्छति)
अध्यापिका— (कक्ष्यायाम्) किमभवत्? कुतः तस्य पितरौ वैद्यालये, रक्षकनिलये च स्तः?
बालाः— यतो हि तस्य माता वैद्यालये सेविका अस्ति, तस्य पिता रक्षकनिलये रक्षापुरुषः वर्तते।
अध्यापिका— मूर्खस्सः, प्रत्याह्वयतु तम्।
😂😅

No comments:

Post a Comment