-राधिकाप्रणयगीतम्-
गीतार्थी गोस्वामी
मनमोहिनी शरत्चन्द्रिमायामिनी
विकसितकमलस्मिता,
शृंगारशततनमनधृता
यमुनाजले नयनार्पिता
मथुरहंसगामिनी ।
प्राणहारकः वंशीधारकः
संगकामकः अतिशय,
प्रणयपीडया क्लान्तातुरः
कम्पितोष्ठः मयुरपक्षशिरवाहकः ।
अञ्चलं हस्तेन स्पृशति
कामेन अक्ष्णि विलीयते
मुरुलीधरः अतीव चतुरः
राधिकां वक्षे बध्नाति ।
अधोमुखी लज्जिता मति
राधिका सुन्दरी कृष्ण प्रणयी
मा मा मा कुरु नाथ
लज्जयाहं म्रियमाना
तव बाहौ श्रियमाना
कुमुदिनीव प्रस्फुटिता
सरोवरै आनन अर्पिता
मधुर मोहक हसिनी
राधिका प्रियदर्शिनी
राधिका मनमोहिनी ।।
No comments:
Post a Comment