*दाता तु भगवान् एव*
हजरत इब्राहिम: नाम कश्चन राजा आसीत् पूर्वम् । कदाचित् तेन कश्चन दास: क्रीत : । स: दास: राज्ञ: सेवार्थं सज्ज: सन् राजानं प्रणम्य विनयेन अतिष्ठत् ।
"भवत: नाम किम् ? "-- प्रीत्या अपृच्छत् राजा ।
" यत् नाम भवते रोचते तेन नाम्ना निर्दिश्यतां प्रभो ! "इति अवदत् सेवक: ।
" कीदृशं कार्यं कर्तुम् इच्छति भवान् ? "
राजा पुन: अपृच्छत् ।
"भवान् यत् आदिशति तत् अहं करिष्यामि " -- दास: अवदत् ।
" कीदृशः वेष: रोचते भवते "? राजा पुन: अपृच्छत् ।
" तदा सेवक: अवदत् --- "प्रभो ! यं वेष: भवान् मह्यं यच्छेत् तदेव रोचते मह्यम् । "
"कीदृशम् आहारम् इच्छति भवान् ? "
राजा पुनरपि अपृच्छत् ।
"तत्रभवान् यादृशेन आहारेण अनुगृह्णीयात् तादृश: आहार: " इति पुनरपि विनयेन अवदत् दास: ।
एतत् श्रुत्वा राजा सिंहासनात् अवतीर्य तस्य दासस्य स्कनधयो: हस्तं संस्थाप्य अवदत् --- " भ्रात:! भवान् अस्ति मम गुरुतुल्य: । भगवता यत् दत्तं तदेव एष्टव्यम् इति नीति: भवता अद्य बोधिता ।
' तत्कुरुष्व मदर्पणम् ' इति वचनं स्मारितं भवता । अप्रार्थित: अपि भगवान् सर्वं ददाति एव । तेन यत् दत्तं तत् प्रसादरुपेण
स्वीकरणीयम् अस्माभि: "इति ।
तत: स: दलं स्वस्य वैयक्तिकसेवकत्वेन नियुक्तवान् ।
No comments:
Post a Comment